प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥
पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन आदित्यस्य, तैर्ह्यसौ पादैरिव ऋतुभिरावर्तते । हेमन्तशिशिरावेकीकृत्येयं कल्पना । पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य ; द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकरणं वा अवयविकरणमस्य द्वादशमासैः तं द्वादशाकृतिम् , दिवः द्युलोकात् परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवीत्यर्थः ; पुरीषिणं पुरीषवन्तम् उदकवन्तम् आहुः कालविदः । अथ तमेवान्ये इमे उ परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे चक्रे सन्ततगतिमति कालात्मनि षडरे षडृतुमति आहुः सर्वमिदं जगत्कथयन्ति — अर्पितम् अरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्यलक्षणो जगतः कारणम् ॥

इयं कल्पनेति ।

पञ्चधा कर्मसाध्यचन्द्रवैलक्षण्यकल्पनेत्यर्थः ।

जनयितृत्वादिति ।

संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः ।

समानाधिकरणबहुव्रीहितया व्याख्याय व्याधिकरणबहुव्रीहिर्वेत्याह –

आकरणं वेति ।

अवयविकरणमिति ।

अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः ।

द्युलोकादिति ।

आकाशरूपादन्तरिक्षलोकादित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनन्वयापत्तेः ।

उदकवन्तमिति ।

आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगतेनाऽऽहुरित्यनेन संबन्धः । उ इति तुशब्दसमानार्थो निपातः । परे तु तमेव विचक्षणमाहुरित्यन्वयः ।

किमाहुरित्यत आह –

सप्तचक्र इति ।

तस्मिन्विचक्षणे सप्तचक्राद्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थः ।

मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह –

यदीति ।

पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदित्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथक्कृत्य षण्णामृतूनामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११ ॥