एवं क्रमेणेति ।
रयिप्राणसंवत्सरादिक्रमेण परिणम्य व्रीह्याद्यात्मना व्यवस्थितः सन्नन्नं वै प्रजापतिरन्नात्मको जातः प्रजापतिरित्यन्वयः ।
कथमिति ।
अन्नरूपत्वेऽपि तस्य कथं प्रजाजनकत्वमित्यर्थः ।
तत इति ।
भक्षितादन्नादित्यर्थः ।
रेत इति ।
शोणितस्याप्युपलक्षणं तुल्यत्वादिति ॥ १४ ॥