तेषामसौ विरज इत्यादिवाक्यं व्याचष्टे –
यस्त्विति ।
उत्तरायण इति ।
तेन प्राप्य इत्यर्थः । प्राणात्मभावोऽपरब्रह्मतयाऽवस्थानमित्यर्थः ।
असौ केषां तेषामिति ।
तेषामसौ विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः ।
न येषु जिह्ममित्यत्र जिह्मादिशब्दं व्यतिरेकप्रदर्शनेन व्याचष्टे –
यथेत्यादिना ।
मायाग्रहणं तादृशानां दोषाणामुपलक्षणमिति वदन्वाक्यार्थं सङ्गृह्य दर्शयति –
मायेत्येवमिति ।
भिक्षुष्विति परमहंसव्यतिरिक्तानां कुटीचकादीनां ग्रहणम् । तेषां ब्रह्मलोकादपि विरक्तत्वेन तत्रानर्थित्वात् ।
इतिशब्दार्थमाह –
इत्येषेति ॥ १६ ॥