प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥
प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं चास्मिञ्शरीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते । अथ अनन्तरं ह किल एनं भार्गवः वैदर्भिः पप्रच्छ — हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते । कः असौ पुनः एषां वरिष्ठः प्रधानः कार्यकरणलक्षणानामिति ॥

प्रश्नान्तरस्य प्रथमप्रश्नेन सङ्गतिमाह –

प्राणोऽत्तेति ।

अवधारयितव्यमिति ।

अत्ता विश्वस्य सत्पतिरित्यत्तृत्वस्यैषोऽग्निस्तपतीत्यारभ्यारा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायस इत्यादिना च प्रजापतित्वस्योत्तरत्र वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं पूर्वं गतिश्रवणेन विरक्तस्यापि चित्तैकाग्र्यं विना वक्ष्यमाणात्मज्ञानासिद्धेस्तदर्थे मन्दानां फलविशेषार्थं च प्राणोपासनार्थं प्रश्नद्वयारम्भः । तत्रापि श्रेष्ठत्वात्तृत्वप्रजापतित्वादिगुणनिर्धारणार्थं द्वितीयः प्रश्नः । तदुत्पत्त्यादिनिर्धारणपूर्वकं तदुपासनविधानार्थं तृतीयः प्रश्नः इत्यपि द्रष्टव्यम् ।

प्रजाशब्देन शरीरमेव गृह्यते न जीवस्तस्य प्राणधारकत्वेन तद्धार्यत्वाभावादित्याह –

शरीरेति ।

विभक्तानामिति निर्धारणे षष्ठी ।

स्वमाहात्म्यख्यापनमिति ।

अवकाशदानादिकमाकाशादीनां माहात्म्यं तस्य ख्यापनं तस्य लोकान्प्रति प्रकटनं तत्प्रकाशयन्ते कुर्वन्तीत्यर्थः । पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्यं सर्वलोकप्रकटनं यथा तथा कतरे कुर्वन्तीत्यर्थः ॥ १ ॥