एष देव इति ।
वक्ष्यमाणाभिवदनादिव्यवहारसिद्ध्यर्थं चेतनत्वं सम्भावयितुं देव इति विशेषणम् “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्”(ब्र.सू. २।१।५) इति न्यायेनाऽऽकाशाद्यभिमानिदेवताग्रहणार्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र सम्बध्यते ।
वाग्ग्रहणं कर्मेन्द्रियोपलक्षणार्थं चक्षुरादिग्रहणं ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह –
कर्मेन्द्रियेति ।
कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । करणलक्षणानीन्द्रियाणि ।
माहात्म्यमिति ।
आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्यं प्रकाश्य सर्वलोकप्रकटं यथा तथा कृत्वाऽभिवदन्ति, अभितः सर्वतः कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः ।
बाणमिति ।
बवयोरभेदद्वाति कुत्सितं गन्धं वहतीति वा, विनाशं गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा बणं बणमेव बाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥ २ ॥