प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥
एवं पृष्टवते तस्मै स ह उवाच — आकाशः ह वै एषः देवः वायुः अग्निः आपः पृथिवी इत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि च । कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्यं प्रकाश्याभिवदन्ति स्पर्धमाना अहंश्रेष्ठतायै । कथं वदन्ति ? वयमेतत् बाणं कार्यकरणसङ्घातम् अवष्टभ्य प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः विस्पष्टं धारयामः । मयैवैकेनायं सङ्घातो ध्रियत इत्येकैकस्याभिप्रायः ॥

एष देव इति ।

वक्ष्यमाणाभिवदनादिव्यवहारसिद्ध्यर्थं चेतनत्वं सम्भावयितुं देव इति विशेषणम् “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्”(ब्र.सू. २।१।५) इति न्यायेनाऽऽकाशाद्यभिमानिदेवताग्रहणार्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र सम्बध्यते ।

वाग्ग्रहणं कर्मेन्द्रियोपलक्षणार्थं चक्षुरादिग्रहणं ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह –

कर्मेन्द्रियेति ।

कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । करणलक्षणानीन्द्रियाणि ।

माहात्म्यमिति ।

आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्यं प्रकाश्य सर्वलोकप्रकटं यथा तथा कृत्वाऽभिवदन्ति, अभितः सर्वतः कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः ।

बाणमिति ।

बवयोरभेदद्वाति कुत्सितं गन्धं वहतीति वा, विनाशं गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा बणं बणमेव बाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥ २ ॥