प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥
तान् एवमभिमानवतः वरिष्ठः मुख्यः प्राणः उवाच उक्तवान् — मा मैवं मोहम् आपद्यथ अविवेकितयाभिमानं मा कुरुत ; यस्मात् अहमेव एतद्बाणम् अवष्टभ्य विधारयामि पञ्चधा आत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामि इति उक्तवति च तस्मिन् ते अश्रद्दधानाः अप्रत्ययवन्तः बभूवुः — कथमेतदेवमिति ॥

कथमेतदिति ।

एतदहमैवैतदित्याद्युक्तम् । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥