सूर्यः सन्निति ।
तपतीत्यनुषङ्गः सन्तापयतीत्यर्थः ।
आवहप्रवहादीति ।
आवहादयः सप्त वायुगुणास्तथाभूतः सन्मेघाञ्ज्योतिश्चक्रादींश्च वहतीति शेषः । एष देवः पृथिवी सन्सर्वस्य जगतो धारयिता रयिश्चन्द्रः सन्सर्वं पुष्णातीत्यर्थः ॥ ५ ॥