प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूꣳषि सामानि यज्ञः क्षत्त्रं ब्रह्म च ॥ ६ ॥
किं बहुना ? अरा इव रथनाभौ श्रद्धादि नामान्तं सर्वं स्थितिकाले प्राणे एव प्रतिष्ठितम् । तथा ऋचः यजूंषि सामानि इति त्रिविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्त्रं च सर्वस्य पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं च एष एव प्राणः सर्वम् ॥

श्रद्धादीति ।

प्राणाच्छ्रद्धां खं वायुर्ज्योतिराप इत्यादिना वक्ष्यमाणषोडशकलात्मक इत्यर्थः ।

ब्रह्म चेति ।

ब्राह्मणजातिरित्यर्थः ।

चब्दार्थमाह –

यज्ञादीति ।

अधिकृतं सर्वमेवेत्यन्वयः ॥ ६ ॥