असंस्कृत इति ।
संस्कारहीनो व्रात्य इति स्मृतेरित्यर्थः ।
अनेन स्वतःशुद्धत्वं विवक्षितमित्याह –
स्वभावत एवेति ।
मातरिश्वेति ।
मातरिश्व न इत्यत्र नलोपश्छान्दस इत्यर्थः ।
वायोस्त्वमिति ।
पितेत्यनुषङ्गः ।
अस्मिन्व्याख्याने वायुमात्रपितृत्वादस्मदादिसर्वपितृत्वमनुक्तं स्यादत आह –
अतश्चेति ।
अस्मदादिसर्वजनकत्वाद्वायोस्तज्जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः ॥१०-११ ॥