प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्
॥ ७ ॥
अथ या तु तत्रैकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्नाख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपादतलमस्तकवृत्तिः सञ्चरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते ॥

इदानीमुदानस्य स्थानं वदन्केनोत्क्रमत इत्यस्योत्तरमाह –

या त्विति ।

उभाभ्यां समप्रधानाभ्यामिति ।

अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोकं नयतीति पूर्वं व्याख्यातं भवति ॥ ७ ॥