ननु गार्हपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजामान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्युक्तमस्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य यागफलस्थानीयत्वोक्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह –
एवं विदुष इति ।
विद्वत्तेति ।
श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवंरूपा विद्येत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षणं प्राणधर्मो नाऽऽत्मधर्म इत्येवं त्वम्पदार्थविवेकरूपत्वात्स्तोतव्यत्वोपपत्तिः । अत एव प्राणजगरणस्याविद्वत्साधारणत्वात्कथं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता तस्यैवम्भूतविवेकाभावादिति ।
ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्वं भवतीति विधीयतां किं स्तुत्येत्याशङ्क्य विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह –
न हीति ।
विद्वत्तास्तुतिरेवेति ।
श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्यादिना स्यूयत उक्तप्रकारेणेत्यर्थः ।
तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यन्तीत्यन्तं व्याचष्टे –
उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन ।
अनेकेति ।
विषयविषयाद्यनेकभावगमनमित्यर्थः । इदं च महत्वव्याख्यानम् ।
स्वप्नद्रष्टुर्जीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्तिः स्वप्नो मनोधर्मो नाऽऽत्मधर्म आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्कापरिहाराभ्यामाह –
नन्विति ।
मनउपाधिकृतमिति ।
बाह्येन्द्रिययुक्तमनउपाधिकृतं जागरणं केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् । स्वप्नो भूत्वेतिश्रुतौ सामानाधिकरण्यनिर्देश इति द्रष्टव्यम् । नन्वियं श्रुतिर्विभूत्यनुभवेन मनःस्वातन्त्र्यं वक्तुं न शक्नोति श्रुत्यन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वातन्त्र्यमिति शङ्कते ।
मन इति ।
स्वयञ्ज्योतिष्ट्वमिति ।
स्वयञ्ज्योतिष्ट्वबोधकश्रुतिरित्यर्थः । अन्यथा द्वितीयसत्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधाभावादित्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योतिष्ट्वबोधनं न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रत उत तद्बोधनरूपकार्यसिध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽद्यः ।
मनसि सत्यप्येवं तर्हीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्ट्वायोगेनाऽऽत्मन एव स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादित्याह –
तन्नेति ।
न द्वितीयः, तदानीं मनसोऽभावस्तु श्रुत्यर्थ एव न भवतीत्याह –
श्रुत्यर्थेति ।
आत्मनि ज्योतिष्ट्वबोधनात्मकव्यवहारस्य प्राकाश्यादिसापेक्षत्वात्तस्मिन्सत्येव तद्बोधसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआद्यभावो न श्रुतौ विवक्षितः, तथा सति तद्बोधनाशक्तेरित्याह –
यस्मादिति ।
तत्र मानमाह –
यत्र वेति ।
द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मानमाह –
मात्रेति ।
दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे सुषुप्तौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः ।
अतो न द्वितीयः कल्पः सम्भवतीत्याह –
अत इति ।
ननु यदि स्वयंज्योतिष्ट्वबोधनार्थं मनआद्यभावो नापेक्षितो जागरितेऽपि तर्हि तद्बोधनसम्भवादत्रेति स्वप्नवाचिविशेषणमनर्थकमिति शङ्कते –
नन्विति ।
किं विशेषणबलान्मनसोऽभावः सिषाधयिषित उत विशेषणस्य गतिमात्रं पृच्छ्यते । नाऽऽद्यः ।
मनसोऽभावाङ्गीकारेऽप्यन्तर्हृदयाकाशस्य तत्कृतपरिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्वबोधनासम्भवाद्विशेषणानर्थक्यं तुल्यमित्याह –
अत्रोच्यत इति ।
परिच्छेदोऽधिकोन्नत इति तरपः प्रयोगः ।
स्वयंज्योतिष्ट्वमिति ।
तद्बोधनमित्यर्थः ।
यथाश्रुते वास्तवस्य तस्य बाधस्यानाशङ्क्यत्वादिति । यद्यपि स्वप्नेऽन्तर्हृदयाकाशसत्त्वात्सम्यक्स्वयंज्योतिष्ट्वं बोधयितुं न शक्यमिति दोषस्तुल्यस्तथाऽपि स्वप्ने मनसोऽभावेन तद्बोधनप्रतिबन्धकस्याभावाददूरविप्रकर्षेण स्वयंज्योतिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्विशेषणमर्थवदिति शङ्कते –
सत्यमिति ।
स्यादित्यन्तरं तथाऽपीति शेषः ।
केवलतयेति ।
मनसोऽभावेनेत्यर्थः ।
भारस्येति ।
प्रतिबन्धकस्येत्यर्थः । शेषबोधनं तु सुषुप्ते भविष्यतीत्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्सम्भवति ।
तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह –
न तत्रापीति ।
सुषुप्तेऽपीत्यर्थः ।
तत्रापीति ।
स्वप्नेऽपीत्यर्थः ।
सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेऽर्धभारापनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽप्यनर्थकमित्यर्थः । तर्हि विशेषणस्य गतिर्वक्तव्येति द्वितीयं शङ्कते –
कथं तर्हीति ।
अत्रैष देवः स्वप्ने महिमानमनुभवतीत्यथर्वशाखावाक्यार्थकथनावसरे काण्वश्रुतिगतविशेषणस्य गतिर्न वक्तव्या प्रकृतानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते –
अन्येति ।
सर्ववेदान्तप्रत्ययन्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्ववाद्याह –
नार्थैकत्वस्येति ।
तर्हि काण्वश्रुतिरर्थाभावात्त्यज्यतामत आह –
श्रुतेर्यथार्थेति ।
स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरर्थावबोधफलकत्वात्तुल्यं च साम्प्रदायिकमिति न्यायाच्चाक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः ।
एवमेकदेशिनि दूषिते सिद्धान्त्युत्तरमाह –
एवं तर्हीति ।
तर्ह्यादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकरणाभ्यामित्याशङ्क्य पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदभिमानावतारचिकीर्षया तदीयनानापक्षा निराकृता इति वक्तुं सर्वमभिमानं निरस्येत्याद्युक्तम् । स्वयंज्योतिष्ट्वश्रुतेरनतिशङ्क्यत्वात्तद्बलात्स्वप्नादौ हृदयाकाशादिसत्वेऽपि तत्सम्बन्धप्रतीत्यभावाद्विद्यमानस्याप्यविद्यमानतुल्यत्वेनाऽऽत्मनः केवलत्वात्प्रकाशदर्शनाच्च स्वयञ्ज्योतिष्ट्वमिति बोधनीयं मनसोऽभाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामाद्दृश्यत्वाच्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह –
यथेत्यादिना ।
मनसीति ।
सत्यपीति शेषः ।
ननु मनश्चेदविद्यादिनिमित्तवशाद्गजतुरगादिरूपेणाभिव्यक्तवासनावत्तर्हि जाग्रतीव तस्याहन्तयैव प्रतीतिः स्यान्नेदन्तयाऽत आह –
कर्मनिमित्तेति ।
तथा प्रतीतिं विना स्वप्ने भोगासिद्धे स्वप्नभोगप्रदकर्मनिमित्तवशाज्जाग्रति गजादीनामिदन्तयाऽनुभवेन तद्वासनानामपि तथैव अनुभवार्हत्वेन तद्वासनारूपाविद्यावशाच्च वासनाश्रयस्य मनस इदन्तयैव वस्त्वन्तरवत्प्रतीतिरित्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विषयित्वासम्भवाद्विषयिण आत्मन एव प्रकाशरूपत्वमिति वक्तुम् । जाग्रत्यादित्यादिकार्यज्योतिषां चक्षुरादिकरणज्योतिषां च सत्त्वेन तत्सङ्कीर्णत्वेनाऽऽत्मनः स्वयञ्ज्योतिष्ट्वं दुर्बोधं स्वप्ने तु तदभावात्सुबोधमिति वक्तुं सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषां भासमानत्वेऽपि तेषां वासनामात्रत्वाद्दृश्यत्वाच्च विषयप्रकाशनासामर्थ्यमिति वक्तुं वासनाभ्य इत्यादि विशेषणम् । एतैश्च विशेषणैः स्वप्न एवैवम्भूते स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादन्यत्रासम्भवादत्रायमितिश्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् ।
स्वयंज्योतिष्ट्वमिति ।
सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मनसोऽभावविवक्षाकारणाभावेन तद्विरोधाभावादत्र देवशब्देन परे देवे मनस्येकीभवतीत्युक्तम् ।
मन एवोच्यत इत्युक्तमुपसंहरति –
तस्मादिति ।
नन्विन्द्रियाणामुपरतत्वाद्विषयसंबन्धाभावात्कथं मनसो महिमानुभव इति शङ्कते –
कथमिति ।
पूर्वं ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापेक्षेत्याह –
उच्यत इति ।
यदिति ।
यन्मित्रं पुत्रं वा पूर्वं दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषयवासनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरभावेन दर्शनायोगान्मन्यत इत्युक्तम् ।
तथेति ।
अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थमित्यध्याहारेणैव श्रुतिर्योज्या । देशो नदीतीरादिः । दिक्प्राच्यादिरिति भावः । प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेष्वनेकस्वप्नेष्वनुभवतीत्यर्थः ।
जन्मान्तरदृष्टमिति व्याख्याने हेतुमाह –
अत्यन्तेति ।
अनुभुतं चेत्यस्य प्रत्यनुभूतमित्यनेन पुनरुक्तिमाशङ्क्याऽऽह –
केवलेनेति ।
पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्यमित्यर्थः ।
सर्वदर्शने हेतुमाह –
सर्व इति ॥ ५ ॥