प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथैतदस्मिञ्शरीरे एतत्सुखं भवति ॥ ६ ॥
सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासनाद्वारो भवति, तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भवन्ति । यदा मनो दार्वग्निवदविशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते, तदा सुषुप्तो भवति । अत्र एतस्मिन्काले एषः मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरुद्धत्वात्तेजसा । अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥

कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह –

स यदेति ।

पित्ताख्येनेति ।

इदमुपलक्षणं चिद्रूपेण ब्रह्मण चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इति श्रुत्यन्तरेण प्राणशब्दिते ब्रह्मणि तस्य लयाभिधानात् ।

तिरस्कृतेति ।

वासनाभिव्यक्तौ द्वारं स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति तेजःशब्दितब्रह्मचैतन्यसम्बन्धादित्यर्थः ।

रश्मय इति ।

वासना इत्यर्थः ।

अविशेषविज्ञानेति ।

सामान्यचैतन्यरूपेणेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा ।

अनेन सुषुप्त उक्त इत्याह –

तदेति ।

नन्वथैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदानीमसम्भवात्स्वरूपसुखस्य पूर्वमपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्क्य स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपाभावे निर्वातस्थदीपप्रभावत्सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह –

यद्विज्ञानमिति ।

विज्ञानरूपं स्वरूपसुखमित्यर्थः ॥ ६ ॥