प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ५ ॥
एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति तावत्सर्वयागफलानुभव एव, नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ति, प्राणाग्नयो वा जाग्रति । जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते । समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तगमनम् ; अतो विद्वत्तास्तुतिरेवेयमुपपद्यते । यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति ; तदाह — अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन्नन्तराल एषः देवः अर्करश्मिवत्स्वात्मनि संहृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते । ननु महिमानुभवने करणं मनोऽनुभवितुः ; तत्कथं स्वातन्त्र्येणानुभवतीत्युच्यते ? स्वतन्त्र हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वात् । न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्च । उक्तं वाजसनेयके ‘सधीः स्वप्नो भूत्वा’ (बृ. मा. ४ । ३ । ७) ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि । तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयञ्ज्योतिष्ट्वं बाध्येत इति केचित् । तन्न । श्रुत्यर्थापरिज्ञानकृता भ्रान्तिस्तेषाम् । यस्मात्स्वयञ्ज्योतिष्ट्वादिव्यवहारोऽप्यामोक्षान्तः सर्वोऽप्यविद्याविषय एव मनआद्युपाधिजनितः ; ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गस्त्वस्य भवति’ (बृ. उ. ४ । ३ । ३१), (बृ. मा. ४ । ५ । १४) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का, न त्वेकात्मविदाम् । नन्वेवं सति ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । १४) इति विशेषणमनर्थकं भवति । अत्रोच्यते । अत्यल्पमिदमुच्यते ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति अन्तर्हृदयपरिच्छेदकरणे सुतरां स्वयञ्ज्योतिष्ट्वं बाध्येत । सत्यमेवम् ; अयं दोषो यद्यपि स्यात्स्वप्ने केवलतया स्वयञ्ज्योतिष्ट्वेनार्धं तावदपनीतं भारस्येति चेत् , न ; तत्रापि ‘पुरीतति नाडीषु शेते’ इति श्रुतेः पुरीतन्नाडीसम्बन्धादत्रापि पुरुषस्य स्वयञ्ज्योतिष्ट्वेनार्धभारापनयाभिप्रायो मृषैव । कथं तर्हि ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । १४) इति ? अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत् , न ; अर्थैकत्वस्येष्टत्वात् । एको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्वयञ्ज्योतिष्ट्वोपपत्तिर्वक्तुम् , श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानम् ; न ह्यभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्सम्बन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इति आत्मनः स्वयञ्ज्योतिष्ट्वं न बाध्यते । एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना अविद्यया अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयञ्ज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते ? तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति । कथं महिमानमनुभवतीति उच्यते । यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यतीत्येवं मन्यते । शृणोति तथा श्रुतमर्थं तद्वासनयानु शृणोतीव । देशदिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्तत्प्रत्यनुभवतीव अविद्यया । तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्टमित्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मान्तरेऽनुभूतमित्यर्थः । सच्च परमार्थोदकादि । असच्च मरीच्युदकादि । किं बहुना, उक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्नान्पश्यति ॥

ननु गार्हपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजामान इत्यन्तेन ग्रन्थेन विद्वानकर्मी न भवतीति स्तूयत इत्युक्तमस्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य यागफलस्थानीयत्वोक्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह –

एवं विदुष इति ।

विद्वत्तेति ।

श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवंरूपा विद्येत्यर्थः । अस्याश्च विद्याया जागरणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षणं प्राणधर्मो नाऽऽत्मधर्म इत्येवं त्वम्पदार्थविवेकरूपत्वात्स्तोतव्यत्वोपपत्तिः । अत एव प्राणजगरणस्याविद्वत्साधारणत्वात्कथं विद्वत्तास्तुतिरित्यपि शङ्का निरस्ता तस्यैवम्भूतविवेकाभावादिति ।

ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्वं भवतीति विधीयतां किं स्तुत्येत्याशङ्क्य विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह –

न हीति ।

विद्वत्तास्तुतिरेवेति ।

श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्यादिना स्यूयत उक्तप्रकारेणेत्यर्थः ।

तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यन्तीत्यन्तं व्याचष्टे –

उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन ।

अनेकेति ।

विषयविषयाद्यनेकभावगमनमित्यर्थः । इदं च महत्वव्याख्यानम् ।

स्वप्नद्रष्टुर्जीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्तिः स्वप्नो मनोधर्मो नाऽऽत्मधर्म आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्कापरिहाराभ्यामाह –

नन्विति ।

मनउपाधिकृतमिति ।

बाह्येन्द्रिययुक्तमनउपाधिकृतं जागरणं केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् । स्वप्नो भूत्वेतिश्रुतौ सामानाधिकरण्यनिर्देश इति द्रष्टव्यम् । नन्वियं श्रुतिर्विभूत्यनुभवेन मनःस्वातन्त्र्यं वक्तुं न शक्नोति श्रुत्यन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वातन्त्र्यमिति शङ्कते ।

मन इति ।

स्वयञ्ज्योतिष्ट्वमिति ।

स्वयञ्ज्योतिष्ट्वबोधकश्रुतिरित्यर्थः । अन्यथा द्वितीयसत्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधाभावादित्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योतिष्ट्वबोधनं न शक्यमिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रत उत तद्बोधनरूपकार्यसिध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽद्यः ।

मनसि सत्यप्येवं तर्हीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्ट्वायोगेनाऽऽत्मन एव स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादित्याह –

तन्नेति ।

न द्वितीयः, तदानीं मनसोऽभावस्तु श्रुत्यर्थ एव न भवतीत्याह –

श्रुत्यर्थेति ।

आत्मनि ज्योतिष्ट्वबोधनात्मकव्यवहारस्य प्राकाश्यादिसापेक्षत्वात्तस्मिन्सत्येव तद्बोधसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआद्यभावो न श्रुतौ विवक्षितः, तथा सति तद्बोधनाशक्तेरित्याह –

यस्मादिति ।

तत्र मानमाह –

यत्र वेति ।

द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मानमाह –

मात्रेति ।

दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे सुषुप्तौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः ।

अतो न द्वितीयः कल्पः सम्भवतीत्याह –

अत इति ।

ननु यदि स्वयंज्योतिष्ट्वबोधनार्थं मनआद्यभावो नापेक्षितो जागरितेऽपि तर्हि तद्बोधनसम्भवादत्रेति स्वप्नवाचिविशेषणमनर्थकमिति शङ्कते –

नन्विति ।

किं विशेषणबलान्मनसोऽभावः सिषाधयिषित उत विशेषणस्य गतिमात्रं पृच्छ्यते । नाऽऽद्यः ।

मनसोऽभावाङ्गीकारेऽप्यन्तर्हृदयाकाशस्य तत्कृतपरिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्वबोधनासम्भवाद्विशेषणानर्थक्यं तुल्यमित्याह –

अत्रोच्यत इति ।

परिच्छेदोऽधिकोन्नत इति तरपः प्रयोगः ।

स्वयंज्योतिष्ट्वमिति ।

तद्बोधनमित्यर्थः ।

यथाश्रुते वास्तवस्य तस्य बाधस्यानाशङ्क्यत्वादिति । यद्यपि स्वप्नेऽन्तर्हृदयाकाशसत्त्वात्सम्यक्स्वयंज्योतिष्ट्वं बोधयितुं न शक्यमिति दोषस्तुल्यस्तथाऽपि स्वप्ने मनसोऽभावेन तद्बोधनप्रतिबन्धकस्याभावाददूरविप्रकर्षेण स्वयंज्योतिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्विशेषणमर्थवदिति शङ्कते –

सत्यमिति ।

स्यादित्यन्तरं तथाऽपीति शेषः ।

केवलतयेति ।

मनसोऽभावेनेत्यर्थः ।

भारस्येति ।

प्रतिबन्धकस्येत्यर्थः । शेषबोधनं तु सुषुप्ते भविष्यतीत्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्सम्भवति ।

तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह –

न तत्रापीति ।

सुषुप्तेऽपीत्यर्थः ।

तत्रापीति ।

स्वप्नेऽपीत्यर्थः ।

सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेऽर्धभारापनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽप्यनर्थकमित्यर्थः । तर्हि विशेषणस्य गतिर्वक्तव्येति द्वितीयं शङ्कते –

कथं तर्हीति ।

अत्रैष देवः स्वप्ने महिमानमनुभवतीत्यथर्वशाखावाक्यार्थकथनावसरे काण्वश्रुतिगतविशेषणस्य गतिर्न वक्तव्या प्रकृतानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते –

अन्येति ।

सर्ववेदान्तप्रत्ययन्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्ववाद्याह –

नार्थैकत्वस्येति ।

तर्हि काण्वश्रुतिरर्थाभावात्त्यज्यतामत आह –

श्रुतेर्यथार्थेति ।

स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरर्थावबोधफलकत्वात्तुल्यं च साम्प्रदायिकमिति न्यायाच्चाक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः ।

एवमेकदेशिनि दूषिते सिद्धान्त्युत्तरमाह –

एवं तर्हीति ।

तर्ह्यादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकरणाभ्यामित्याशङ्क्य पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदभिमानावतारचिकीर्षया तदीयनानापक्षा निराकृता इति वक्तुं सर्वमभिमानं निरस्येत्याद्युक्तम् । स्वयंज्योतिष्ट्वश्रुतेरनतिशङ्क्यत्वात्तद्बलात्स्वप्नादौ हृदयाकाशादिसत्वेऽपि तत्सम्बन्धप्रतीत्यभावाद्विद्यमानस्याप्यविद्यमानतुल्यत्वेनाऽऽत्मनः केवलत्वात्प्रकाशदर्शनाच्च स्वयञ्ज्योतिष्ट्वमिति बोधनीयं मनसोऽभाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामाद्दृश्यत्वाच्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह –

यथेत्यादिना ।

मनसीति ।

सत्यपीति शेषः ।

ननु मनश्चेदविद्यादिनिमित्तवशाद्गजतुरगादिरूपेणाभिव्यक्तवासनावत्तर्हि जाग्रतीव तस्याहन्तयैव प्रतीतिः स्यान्नेदन्तयाऽत आह –

कर्मनिमित्तेति ।

तथा प्रतीतिं विना स्वप्ने भोगासिद्धे स्वप्नभोगप्रदकर्मनिमित्तवशाज्जाग्रति गजादीनामिदन्तयाऽनुभवेन तद्वासनानामपि तथैव अनुभवार्हत्वेन तद्वासनारूपाविद्यावशाच्च वासनाश्रयस्य मनस इदन्तयैव वस्त्वन्तरवत्प्रतीतिरित्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विषयित्वासम्भवाद्विषयिण आत्मन एव प्रकाशरूपत्वमिति वक्तुम् । जाग्रत्यादित्यादिकार्यज्योतिषां चक्षुरादिकरणज्योतिषां च सत्त्वेन तत्सङ्कीर्णत्वेनाऽऽत्मनः स्वयञ्ज्योतिष्ट्वं दुर्बोधं स्वप्ने तु तदभावात्सुबोधमिति वक्तुं सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषां भासमानत्वेऽपि तेषां वासनामात्रत्वाद्दृश्यत्वाच्च विषयप्रकाशनासामर्थ्यमिति वक्तुं वासनाभ्य इत्यादि विशेषणम् । एतैश्च विशेषणैः स्वप्न एवैवम्भूते स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादन्यत्रासम्भवादत्रायमितिश्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् ।

स्वयंज्योतिष्ट्वमिति ।

सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मनसोऽभावविवक्षाकारणाभावेन तद्विरोधाभावादत्र देवशब्देन परे देवे मनस्येकीभवतीत्युक्तम् ।

मन एवोच्यत इत्युक्तमुपसंहरति –

तस्मादिति ।

नन्विन्द्रियाणामुपरतत्वाद्विषयसंबन्धाभावात्कथं मनसो महिमानुभव इति शङ्कते –

कथमिति ।

पूर्वं ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापेक्षेत्याह –

उच्यत इति ।

यदिति ।

यन्मित्रं पुत्रं वा पूर्वं दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषयवासनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरभावेन दर्शनायोगान्मन्यत इत्युक्तम् ।

तथेति ।

अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थमित्यध्याहारेणैव श्रुतिर्योज्या । देशो नदीतीरादिः । दिक्प्राच्यादिरिति भावः । प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेष्वनेकस्वप्नेष्वनुभवतीत्यर्थः ।

जन्मान्तरदृष्टमिति व्याख्याने हेतुमाह –

अत्यन्तेति ।

अनुभुतं चेत्यस्य प्रत्यनुभूतमित्यनेन पुनरुक्तिमाशङ्क्याऽऽह –

केवलेनेति ।

पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्यमित्यर्थः ।

सर्वदर्शने हेतुमाह –

सर्व इति ॥ ५ ॥