तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बनत्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह –
एतद्वा इति ।
एतद्यच्छब्दयोर्नपुंसकयोरोङ्कारविशेषणत्वायोगाद्ब्रह्मविशेषणत्वमाह –
एतद्ब्रह्मेति ।
किं तद्ब्रह्मेत्यत आह –
परं चेति ।
यदेतत्परं चापरं च ब्रह्मास्ति तदुभयमोङ्कार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशेनोङ्कारत्वविधाने ब्रह्मण्योङ्कारदृष्टिः प्रसज्येतेति शङ्क्यम् । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओङ्कार एव ब्रह्मदृष्टिः सिध्यतीति भावः ।
तयोर्भेदात्कथमैक्यमित्याशङ्क्योपचारादित्याह –
ओङ्कारप्रतीकत्वादिति ।
अनेन सामानाधिकरण्येनोङ्कारस्य प्रतीकत्वमुपदिश्यत इति भावः ।
ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्माभिधीयतामत आह –
परं हीति ।
शब्दादीति ।
शब्दादिभिः साक्षाद्बोधनानर्हमित्यर्थः । आदिशब्देनानुमानादि गृह्यते ।
प्रवृत्तिनिमित्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतुमाह –
सर्वेति ।
न शक्यमित्यवगाहितुमित्यन्वयः ।
तर्हीन्द्रियैर्मनसा वा तद्ग्रहोऽस्त्वित्यत आह –
अतीन्द्रियेति ।
मनसेतीन्द्रियैर्वेत्यपि द्रष्टव्यम् ।
तर्हि तथाविधस्योङ्कारेऽप्यावेशासम्भवात्किञ्चिद्विशेषमारोप्याऽऽवेशो वक्तव्यः । अत एव सूर्यान्तर्गतत्वं विशेषं वक्ष्यति ओङ्कारतादात्म्यं च तत्कथं निर्विशेषलाभोऽत आह –
ओङ्कारे त्विति ।
प्रसीदतीति ।
तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यर्थः ।
तत्र मानमाह –
शास्त्रेति ।
अन्यथा परब्रह्मार्थिनस्तदुक्तिवैयर्थ्यादित्यर्थः ।
तथाऽपरं चेति ।
प्रसीदतीत्यन्वयः ।
तस्मादिति ।
प्रतीकत्वादित्यर्थः ।
तस्मादेवं विद्वानिति ।
ब्रह्मत्वाद्ब्रह्मत्वार्हमिति विद्वानित्यर्थः । एतेनैवेत्यनन्तरमायतेनालम्बनेनेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् ।
तस्य पदस्य पिण्डितार्थमाह –
ओङ्कारेति ।
न त्वेतच्छब्दार्थकथनमेतदिति द्रष्टव्यम् ।
अभिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपासनत्वात्परप्रापकत्वं न सम्भवतीत्यत आह –
नेदिष्ठमिति ।
मनआद्यपेक्षयेदं नेदिष्ठं समीपवर्त्यन्तरङ्गं श्रेष्ठमालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥