प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ २ ॥
पृष्टवते तस्मै स ह उवाच पिप्पलादः — एतद्वै सत्यकाम । एतत् ब्रह्म वै परं च अपरं च ब्रह्म परं सत्यमक्षरं पुरुषाख्यम् अपरं च प्राणाख्यं प्रथमजं यत् तदोङ्कार एव ओङ्कारात्मकम् ओङ्कारप्रतीकत्वात् । परं हि ब्रह्म शब्दाद्युपलक्षणानर्हं सर्वधर्मविशेषवर्जितम् , अतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसावगाहितुम् । ओङ्कारे तु विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदतीत्यवगम्यते शास्त्रप्रामाण्यात् । तथा परं च ब्रह्म । तस्मात्परं चापरं च ब्रह्म यदोङ्कार इत्युपचर्यते । तस्मादेवं विद्वान् एतेनैव आत्मप्राप्तिसाधनेनैव ओङ्काराभिध्यानेन एकतरं परमपरं वा अन्वेति ब्रह्मानुगच्छति ; नेदिष्ठं ह्यालम्बनमोङ्कारो ब्रह्मणः ॥

तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बनत्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह –

एतद्वा इति ।

एतद्यच्छब्दयोर्नपुंसकयोरोङ्कारविशेषणत्वायोगाद्ब्रह्मविशेषणत्वमाह –

एतद्ब्रह्मेति ।

किं तद्ब्रह्मेत्यत आह –

परं चेति ।

यदेतत्परं चापरं च ब्रह्मास्ति तदुभयमोङ्कार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशेनोङ्कारत्वविधाने ब्रह्मण्योङ्कारदृष्टिः प्रसज्येतेति शङ्क्यम् । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओङ्कार एव ब्रह्मदृष्टिः सिध्यतीति भावः ।

तयोर्भेदात्कथमैक्यमित्याशङ्क्योपचारादित्याह –

ओङ्कारप्रतीकत्वादिति ।

अनेन सामानाधिकरण्येनोङ्कारस्य प्रतीकत्वमुपदिश्यत इति भावः ।

ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्माभिधीयतामत आह –

परं हीति ।

शब्दादीति ।

शब्दादिभिः साक्षाद्बोधनानर्हमित्यर्थः । आदिशब्देनानुमानादि गृह्यते ।

प्रवृत्तिनिमित्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतुमाह –

सर्वेति ।

न शक्यमित्यवगाहितुमित्यन्वयः ।

तर्हीन्द्रियैर्मनसा वा तद्ग्रहोऽस्त्वित्यत आह –

अतीन्द्रियेति ।

मनसेतीन्द्रियैर्वेत्यपि द्रष्टव्यम् ।

तर्हि तथाविधस्योङ्कारेऽप्यावेशासम्भवात्किञ्चिद्विशेषमारोप्याऽऽवेशो वक्तव्यः । अत एव सूर्यान्तर्गतत्वं विशेषं वक्ष्यति ओङ्कारतादात्म्यं च तत्कथं निर्विशेषलाभोऽत आह –

ओङ्कारे त्विति ।

प्रसीदतीति ।

तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यर्थः ।

तत्र मानमाह –

शास्त्रेति ।

अन्यथा परब्रह्मार्थिनस्तदुक्तिवैयर्थ्यादित्यर्थः ।

तथाऽपरं चेति ।

प्रसीदतीत्यन्वयः ।

तस्मादिति ।

प्रतीकत्वादित्यर्थः ।

तस्मादेवं विद्वानिति ।

ब्रह्मत्वाद्ब्रह्मत्वार्हमिति विद्वानित्यर्थः । एतेनैवेत्यनन्तरमायतेनालम्बनेनेति पदद्वयं प्रमादतो गलितमिति द्रष्टव्यम् ।

तस्य पदस्य पिण्डितार्थमाह –

ओङ्कारेति ।

न त्वेतच्छब्दार्थकथनमेतदिति द्रष्टव्यम् ।

अभिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपासनत्वात्परप्रापकत्वं न सम्भवतीत्यत आह –

नेदिष्ठमिति ।

मनआद्यपेक्षयेदं नेदिष्ठं समीपवर्त्यन्तरङ्गं श्रेष्ठमालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥