पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किन्तु कलाजनकत्वे तदुपाधिमत्त्वादिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह –
षोडशकलाभिरिति ।
ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह –
तदुपाधीति ।
तथैव स प्रदर्शनीय इत्यत्र हेतुमाह –
अत्यन्तेति ।
अविद्याविषया इति ।
अविद्याधीना इत्यर्थः ।
कालत्रयेऽपि तासां चैतन्यरूपाधिष्ठानाव्यतिरेकाद्रज्जुसर्पवन्मृषात्वमित्यविद्याविषयत्वं साधयति –
चैतन्येति ।
चैतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतुं विज्ञानवादिभ्रान्त्या दृढीकरोति –
अत एवेति ।
घृतं यथाऽग्निसंयोगाद्द्रवावस्थां प्रतिपद्यत एवमहमाकारमालयविज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यतिरेके प्रत्ययं गमयति, अन्यथा तथाभ्रमानुपपत्तेरित्यर्थः ।
विषयाणां चैतन्याव्यतिरेकेण प्रतीतिनियमादेव विषयविज्ञानरूपेण चैतन्याभावे सुषुप्त्यादौ शून्यभ्रमो जातः केषाञ्चिदिति तदीयभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीतिं दृढी करोति –
तन्निरोध इति ।
चैतन्यस्यानित्यस्य कलारोपाधिष्ठानत्वं न सम्भवति कलाकार्यत्वादिति नैयायिकपक्षोक्तिव्याजेन शङ्कते –
घटादीति ।
भूतधर्म इति ।
देहाकारेण संहतभूतधर्म इत्यर्थः ।
चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्ध्यर्थं नित्यत्वमेकत्वं च वदंस्तान्निराकरोति –
अनपायेति ।
प्रत्यवभासत इति ।
नानात्वेन कार्यत्वेन चेति शेषः ।
सत्यं ज्ञानमिति ।
तथा च श्रुतिविरोधात्ते पक्षा हेया इत्यर्थः ।
किञ्च ज्ञानकाले विषयाणां सद्भावनियमाभावाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयोर्भेदं इति विज्ञानवादिपक्षं निराकुर्वन्नव्यभिचारादेव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति –
स्वरूपेति ।
घटज्ञानकाले घटाभावसम्भवाद्विषयाणां ज्ञानव्यभिचारित्वं ज्ञानस्य तु विषयकालेऽवश्यम्भावनियमादव्यभिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्क्य स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरूपेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः ।
ज्ञानस्याव्यभिचारित्वमुपपादयति –
यथा यथेति ।
ननूत्पन्नविनष्टादेर्मेरुगुहान्तर्वर्तिनश्चाज्ञायमानत्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्याशङ्क्य तस्याज्ञाने तत्सद्भावासिद्धेस्तथाभूतपदार्थोऽसिद्ध इत्याह –
वस्तुतत्त्वेति ।
अनुपपत्तिमेव दृष्टान्तेति स्फुटी करोति –
रूपं चेति ।
ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह –
व्यभिचरति त्विति ।
घटज्ञानकाले कदाचिद्घाटाभावादित्यर्थः ।
पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्क्य विशिष्टरूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह –
न व्यभिचरतीति ।
ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः ।
भावादिति ।
स्वरूपेणेत्यर्थः ।
ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति –
न हीति ।
स्वरूपेणाप्यभावं शङ्कते –
सुषुप्त इति ।
किं तदानीं ज्ञेयाभावेन ज्ञानाभावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽद्येऽपि ज्ञेयस्य व्यङ्ग्यत्वात्तदभावाद्व्यञ्जकाभाव इति वोत तयोरैक्यादेकाभाव इतराभाव इति ।
नाऽऽद्यो व्यभिचारादित्याह –
न ज्ञेयेति ।
व्यङ्ग्यज्ञानैककल्पस्य व्यङ्ग्याभावेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैवमिति ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह –
न हीति ।
वैनाशिकमते विज्ञानव्यतिरिक्ताकालोकाद्यभावान्न तत्र व्यभिचार इति शङ्कते –
वैनाशिक इति ।
कल्पयत्येवेति ।
उक्तव्यभिचारस्थलाभावेन व्यभिचाराभावादित्यर्थः ।
एवमपि ज्ञानाभावकल्पकस्य ज्ञेयाभावस्य ज्ञानमङ्गीक्रियते न वा ।आद्ये न ज्ञानाभावसिद्धिस्तस्यैवाभावज्ञानस्य सत्त्वादित्याह –
येनेति ।
येन ज्ञेयाभावज्ञानेन तदभावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्याभावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः ।
न द्वितीय इत्याह –
तदभावस्यापीति ।
ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानाभावकल्पकत्वासम्भवादवश्यं ज्ञेयत्वात्तज्ञानाभावे तदनुपपत्तेः कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः ।
आद्यकोटौ द्वितीयकल्पं शङ्कते –
ज्ञेयेति ।
वैनाशिकमतेऽप्यभावस्य ज्ञेयत्वाभ्युपगमाद्बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तदिति प्रतिसङ्ख्याऽप्रतिसङ्ख्या निरोधाकाशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्याभावस्य नित्यत्वाङ्गीकारेण तदविज्ञानसन्ततेर्नित्यत्वाङ्गीकारेण त्वया तदाऽपि तदभावो वक्तुं न शक्यत इत्याह –
न सुषुप्त इति ।
अस्तित्वमिति ।
तथा च ज्ञानस्यादर्शनमसिद्धं सुषुप्तेऽपि तदङ्गीकारादित्यर्थः ।
ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया सुषुप्ते च स्वस्यैव स्वज्ञेयत्वाज्ज्ञानदर्शनमुपपद्यतेऽस्मन्मते । त्वन्मते तु स्वज्ञेयत्वानङ्गीकारात्सुषुप्ते चान्यस्याभावान्निरूपकाभावान्न ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते –
तत्रापीति ।
अभावस्थले ज्ञानज्ञेययोर्भेदस्य साधितत्वात्तद्दृष्टान्तेन सर्वत्र ज्ञानज्ञेययोर्भेदसाधनान्न स्वज्ञेयत्वं ज्ञानस्येत्याह –
न भेदस्येति ।
अभावरूपो ज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपो यो ज्ञेयस्तद्व्यतिरेकादित्यर्थः ।
अभावस्थले भेदेऽपि न सर्वत्रेत्याशङ्क्य न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्यमित्याह –
न हीति ।
ज्ञानस्य स्वव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैनाशिकः शङ्कते –
ज्ञानस्येति ।
ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादस्मन्मते च ज्ञानस्य ज्ञेयत्वानङ्गीकारान्न दोष इत्याह –
न तदिति ।
सर्वस्य वस्तुजातस्य विभागोऽसङ्करो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवंरूपस्तस्योपपत्तेरित्यर्थः । अथवा द्विभागोपपत्तेरिति च्छेदः । ज्ञानज्ञेयरूपभागद्वयमेव राशिद्वयमेवाङ्गी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भावराशिरङ्गी क्रियत इत्यर्थः ।
तामेवाऽऽह –
यदा हीति ।
यस्मिन्पक्षे ज्ञेयं सर्वं स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमित्यङ्गी क्रियत इति ज्ञेयपदावृत्त्या स्वव्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः ।
तद्विषय इति ।
ज्ञानविषयकज्ञानात्मक इत्यर्थः ।
तर्हि त्वत्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते –
ज्ञानस्येति ।
ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शशविषाणादेरज्ञानात्सर्वज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः किन्तु वैनाशिकस्यैव, तेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूर्वग्रन्थे दूषितत्वादन्यज्ञेयत्वस्य चानङ्गीकारात्सर्वज्ञत्वायोगादित्याह –
सोऽपीति ।
तर्हि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्क्यास्मन्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह –
किं तदिति ।
वस्तुतस्तु सर्वस्य व्यवहारहेतुज्ञानवत्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्रकाशत्वेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः ।
पूर्वोक्तानवस्थादोषोऽपि तस्यैवेत्याह –
अनवस्थेति ।
ननु तेन स्वेनैव ज्ञेयत्वाङ्गीकारान्नानवस्थेत्यत आह –
स्वात्मना चेति ।
सिद्धं हीत्यत्र स्वज्ञेयत्वासम्भवस्योक्तत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनिवार्येत्यर्थः ।
ज्ञानस्याज्ञेयत्वे तद्व्यवहारासिद्धर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते –
समान एवेति ।
स्वप्रकाशत्वेन स्वव्यवहारसिद्धेर्ज्ञानभेदस्यैवास्माभिरनङ्गीकारादनवस्थायाः प्रसक्तिरेव नास्तीति परिहरति –
न ज्ञानस्येति ।
एकत्वपक्षे भेदप्रतीतिमुपपादयति –
नामरूपेति ।
एवं च चैतन्यस्यैकत्वेन नित्यत्वाज्जगद्भिन्नत्वेन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्तेस्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यर्थमिहोच्यत इत्याह –
तथा चेहेति ।
चैतन्यस्य नित्यत्वेनाधिष्ठानत्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः ।
ननु चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वादिति शङ्कते –
नन्विति ।
शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरोधादित्याह –
नेति ।
अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह –
कलेति ।
स्वोत्पत्तेः पूर्वं स्वस्याभावात्तत्कालीनपुरुषं परिच्छेत्तुं न शक्नोतीत्यर्थः ।
बीजकार्यस्य वृक्षस्य कार्यं फलं स्वकारणवृक्षकारणं बीजमभ्यन्तरीकरोतीति दृष्टमिति नायोग्यत्वमिति शङ्कते –
बीजवृक्षादिवदिति ।
तद्विवृणोति –
यथेति ।
दृष्टाने बीजव्यक्तिभेदादविरोधेऽपीह पुरुषव्यक्त्यैक्यात्कारणत्वाभ्यन्तरीभावयोर्विरोध इत्याह –
नेति ।
ननु कारणीभूतबीजस्यैव वृक्षफलतदन्तर्गतबीजरूपेण परिणामात्तयोः कारणकार्ययोर्बीजयोरैक्यमाशङ्क्यैवमपि तस्य सावयवत्वाद्वृक्षवत्फलाकारेण परिणतावयवेभ्यो भिन्नावयवानामेव तदन्तर्गतबीजरूपेण परिणामात्तयोर्भेदेनाऽऽधाराधेयभावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह –
सावयवत्वाच्चेति ।
आद्यं हेतुं विवृणोति –
दृष्टान्त इति ।
श्रूयत इति ।
यस्मिन्नेताः षोडश कला इति यच्छब्दोक्तस्यैव पुरुषस्यान्तःशरीरे सोम्य स पुरुष इति तच्छब्देनाभिधानादित्यर्थः ।
द्वितीयं हेतुं विवृणोति –
बीजेति ।
निरवयवश्चेति ।
तथा चैकदेशेन कलादिरूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन्न सम्भवतीत्यर्थः ।
किञ्च कलानां सावयवत्वेन परिच्छेदात्पुरुषस्य तद्विपरीतत्वादपरिच्छिन्नस्य न परिच्छिन्नाधारकत्वं सम्भवतीत्याह –
सावयवाश्चेति ।
यद्वा सावयवत्वेन कार्यतया मृषात्वान्निरवयवतया परमार्थसत्यपुरुषाधारत्वं नोपपद्यत इत्याह –
सावयवाश्चेति ।
नन्वाकाशकार्यशरीर आकाशस्यापरिच्छिन्नस्याभ्यन्तरीभावो दृष्ट इत्याशङ्क्य तस्यापि शरीराकारेणावस्थानमेव च्छिद्रादिविशिष्टस्यैव शरीरत्वान्न तु तदन्तःस्थत्वमित्याह –
एतेनेति ।
युक्त्यसहमपि वचनप्रामाण्यादङ्गीकार्यमिति शङ्कते –
किं दृष्टान्तेनेति ।
वचनस्यापि वस्तुनोऽन्यथाकरणे सामर्थ्याभावाद्वस्तुस्वरूपाविरोधेनैव बोधकत्वादन्यथा विचारवैयर्थ्याद्विरुद्धार्थो न बोधार्ह इत्याह –
वचनस्येति ।
तर्ह्यन्तःशरीर इति श्रुतेः कथमुपपत्तिरित्याशङ्क्य पुरुषस्य शरीरोपादानत्वेन तदनुस्यूतस्य तदन्तर्गतवत्प्रतीतेस्तदभिप्रयेयं श्रुतिरिति सदृष्टान्तमाह –
तस्मादिति ।
अण्डेति ।
अण्डकारणस्य व्योम्नो यथा तदनुस्यूतत्वेन तदन्तर्गतत्वप्रतीतिस्तद्वदित्यर्थः ।
यद्वा लोकभ्रमसिद्धं परिच्छिन्नत्वमनूद्यते श्रुत्येत्याह –
उपलब्धीति ।
तत्राभिव्यक्तेर्वा तदन्तर्गतत्वव्यपदेश इत्याह –
उपलभ्यते चेति ॥ २ ॥