प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
तस्मै स होवाचेहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २ ॥
तस्मै स होवाच । इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः । यस्मिन् एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशभिः कलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति ; तदुपाधिकलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते प्राणादीनाम् । अत्यन्तनिर्विशेषे ह्यद्वये विशुद्धे तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाः । चैतन्याव्यतिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचित् — अग्निसंयोगाद्धृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्निरोधे शून्यमेव सर्वमिति अपरे । घटादिविषयं चैतन्यं चेतयिदुर्नित्यस्यात्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भूतधर्म इति लौकायतिकाः । अनपायोपजनधर्मकचैतन्यमात्मैव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’ (ऐ. उ. ३ । १ । ३) ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) इत्यादिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचाराद्यथा यथा यो यः पदार्थो ज्ञायते, तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम् । वस्तुतत्त्वं भवति किञ्चित् , न ज्ञायत इति चानुपपन्नम् ; रूपं च दृश्यते, न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयम् ; न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम् , ज्ञेयाभावेऽपि ज्ञेयान्तरे भावाज्ज्ञानस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित् ; सुषुप्तेऽदर्शनात् — ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेत् , न ; ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यक्त्यर्थत्वात्स्वव्यङ्ग्याभावे आलोकाभावानुपपत्तिवत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञानाभावानुपपत्तेः । न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुमवैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत् , येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन ; तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तदनुपपत्तेः । ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेत् , न ; अभावस्यापि ज्ञेयत्वाभ्युपगमात् — अभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैर्नित्यश्च । तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात् । तदभावस्य च ज्ञानात्मकत्वादभावत्वं च वाङ्मात्रमेव ; न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किञ्चिन्नश्छिन्नम् । अथाभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत् , न तर्हि ज्ञेयाभावो ज्ञानाभावः । ज्ञेयं ज्ञानव्यतिरिक्तम् ; न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत् , न ; शब्दमात्रत्वाद्विशेषानुपपत्तेः । ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञानव्यातिरिक्तम् , न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् — वह्निरग्निव्यतिरिक्तः, अग्निर्न वह्निव्यतिरिक्त इति यद्वत् — अभ्युपगम्यम् । ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा । ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेत् , न ; सुषुप्ते ज्ञप्त्यभ्युपगमात् — वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि विज्ञानास्तित्वम् । तत्रापि ज्ञेयत्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेत् , न ; भेदस्य सिद्धत्वात् — सिद्धं ह्यभावविज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोरन्यत्वम् । न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि । ज्ञानस्य स्वाज्ञेयत्वे तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेत् , न ; तद्विभागोपपत्तेः सर्वस्य — यदा हि सर्वं ज्ञेयं कस्यचित् , तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः । न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः । ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत् , सोऽपि दोषस्तस्यैवास्तु ; किं तन्निबर्हणेनास्माकम् ? अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात् — अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । स्वात्मना चाविज्ञेयत्वेनानवस्था अनिवार्या । समान एवायं दोष इति चेत् , न ; ज्ञानस्यैकत्वोपपत्तेः — सर्वदेशकालपुरुषाद्यवस्थास्वेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवदनेकधावभासत इति । नासौ दोषः । तथा चेहेदमुच्यते । ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न ; प्राणादिकलाकारणत्वात् — न हि शरीरमात्रपरिच्छिन्नः प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाच्च शरीरस्य — न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमिवाभ्यन्तरीकुर्यात् । बीजवृक्षादिवत्स्यादिति चेत् — यथा बीजकार्यं वृक्षस्तत्कार्यं च फलं स्वकारणकारणं बीजमभ्यन्तरीकरोत्याम्रादि, तद्वत्पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणकारणमपीति चेत् , न ; अन्यत्वात्सावयवत्वाच्च — दृष्टान्ते कारणाद्बीजाद्वृक्षफलसंवृत्तान्यन्यान्येव बीजानि ; दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते । बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वम् ; निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च । एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नम् ; किमुताकाशकारणस्य पुरुषस्य ? तस्मादसमानो दृष्टान्तः । किं दृष्टान्तेन ? वचनात्स्यादिति चेत् , न ; वचनस्याकारकत्वात् — न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियते ; किं तर्हि, यथाभूतार्थावद्योतने । तस्मादन्तःशरीर इत्येतद्वचनम् ‘अण्डस्यान्तर्व्योम’ इतिवद्द्रष्टव्यम् । उपलब्धिनिमित्तत्वाच्च — दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात्र । अत उच्यते — अन्तःशरीरे सोम्य स पुरुष इति । न पुनराकाशकारणभूतः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि ; किमुत प्रमाणभूता श्रुतिः ॥
षोडशकलाभिरिति ; तदुपाधीति ; अत्यन्तेति ; अविद्याविषया इति ; चैतन्येति ; अत एवेति ; तन्निरोध इति ; घटादीति ; भूतधर्म इति ; अनपायेति ; प्रत्यवभासत इति ; सत्यं ज्ञानमिति ; स्वरूपेति ; यथा यथेति ; वस्तुतत्त्वेति ; रूपं चेति ; व्यभिचरति त्विति ; न व्यभिचरतीति ; भावादिति ; न हीति ; सुषुप्त इति ; न ज्ञेयेति ; न हीति ; वैनाशिक इति ; कल्पयत्येवेति ; येनेति ; तदभावस्यापीति ; ज्ञेयेति ; न सुषुप्त इति ; अस्तित्वमिति ; तत्रापीति ; न भेदस्येति ; न हीति ; ज्ञानस्येति ; न तदिति ; यदा हीति ; तद्विषय इति ; ज्ञानस्येति ; सोऽपीति ; किं तदिति ; अनवस्थेति ; स्वात्मना चेति ; समान एवेति ; न ज्ञानस्येति ; नामरूपेति ; तथा चेहेति ; नन्विति ; नेति ; कलेति ; बीजवृक्षादिवदिति ; यथेति ; नेति ; सावयवत्वाच्चेति ; दृष्टान्त इति ; श्रूयत इति ; बीजेति ; निरवयवश्चेति ; सावयवाश्चेति ; सावयवाश्चेति ; एतेनेति ; किं दृष्टान्तेनेति ; वचनस्येति ; तस्मादिति ; अण्डेति ; उपलब्धीति ; उपलभ्यते चेति ॥ २ ॥ ;

पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किन्तु कलाजनकत्वे तदुपाधिमत्त्वादिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह –

षोडशकलाभिरिति ।

ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह –

तदुपाधीति ।

तथैव स प्रदर्शनीय इत्यत्र हेतुमाह –

अत्यन्तेति ।

अविद्याविषया इति ।

अविद्याधीना इत्यर्थः ।

कालत्रयेऽपि तासां चैतन्यरूपाधिष्ठानाव्यतिरेकाद्रज्जुसर्पवन्मृषात्वमित्यविद्याविषयत्वं साधयति –

चैतन्येति ।

चैतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतुं विज्ञानवादिभ्रान्त्या दृढीकरोति –

अत एवेति ।

घृतं यथाऽग्निसंयोगाद्द्रवावस्थां प्रतिपद्यत एवमहमाकारमालयविज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यतिरेके प्रत्ययं गमयति, अन्यथा तथाभ्रमानुपपत्तेरित्यर्थः ।

विषयाणां चैतन्याव्यतिरेकेण प्रतीतिनियमादेव विषयविज्ञानरूपेण चैतन्याभावे सुषुप्त्यादौ शून्यभ्रमो जातः केषाञ्चिदिति तदीयभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीतिं दृढी करोति –

तन्निरोध इति ।

चैतन्यस्यानित्यस्य कलारोपाधिष्ठानत्वं न सम्भवति कलाकार्यत्वादिति नैयायिकपक्षोक्तिव्याजेन शङ्कते –

घटादीति ।

भूतधर्म इति ।

देहाकारेण संहतभूतधर्म इत्यर्थः ।

चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्ध्यर्थं नित्यत्वमेकत्वं च वदंस्तान्निराकरोति –

अनपायेति ।

प्रत्यवभासत इति ।

नानात्वेन कार्यत्वेन चेति शेषः ।

सत्यं ज्ञानमिति ।

तथा च श्रुतिविरोधात्ते पक्षा हेया इत्यर्थः ।

किञ्च ज्ञानकाले विषयाणां सद्भावनियमाभावाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयोर्भेदं इति विज्ञानवादिपक्षं निराकुर्वन्नव्यभिचारादेव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति –

स्वरूपेति ।

घटज्ञानकाले घटाभावसम्भवाद्विषयाणां ज्ञानव्यभिचारित्वं ज्ञानस्य तु विषयकालेऽवश्यम्भावनियमादव्यभिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्क्य स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरूपेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः ।

ज्ञानस्याव्यभिचारित्वमुपपादयति –

यथा यथेति ।

ननूत्पन्नविनष्टादेर्मेरुगुहान्तर्वर्तिनश्चाज्ञायमानत्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्याशङ्क्य तस्याज्ञाने तत्सद्भावासिद्धेस्तथाभूतपदार्थोऽसिद्ध इत्याह –

वस्तुतत्त्वेति ।

अनुपपत्तिमेव दृष्टान्तेति स्फुटी करोति –

रूपं चेति ।

ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह –

व्यभिचरति त्विति ।

घटज्ञानकाले कदाचिद्घाटाभावादित्यर्थः ।

पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्क्य विशिष्टरूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह –

न व्यभिचरतीति ।

ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः ।

भावादिति ।

स्वरूपेणेत्यर्थः ।

ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति –

न हीति ।

स्वरूपेणाप्यभावं शङ्कते –

सुषुप्त इति ।

किं तदानीं ज्ञेयाभावेन ज्ञानाभावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽद्येऽपि ज्ञेयस्य व्यङ्ग्यत्वात्तदभावाद्व्यञ्जकाभाव इति वोत तयोरैक्यादेकाभाव इतराभाव इति ।

नाऽऽद्यो व्यभिचारादित्याह –

न ज्ञेयेति ।

व्यङ्ग्यज्ञानैककल्पस्य व्यङ्ग्याभावेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैवमिति ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह –

न हीति ।

वैनाशिकमते विज्ञानव्यतिरिक्ताकालोकाद्यभावान्न तत्र व्यभिचार इति शङ्कते –

वैनाशिक इति ।

कल्पयत्येवेति ।

उक्तव्यभिचारस्थलाभावेन व्यभिचाराभावादित्यर्थः ।

एवमपि ज्ञानाभावकल्पकस्य ज्ञेयाभावस्य ज्ञानमङ्गीक्रियते न वा ।आद्ये न ज्ञानाभावसिद्धिस्तस्यैवाभावज्ञानस्य सत्त्वादित्याह –

येनेति ।

येन ज्ञेयाभावज्ञानेन तदभावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्याभावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः ।

न द्वितीय इत्याह –

तदभावस्यापीति ।

ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानाभावकल्पकत्वासम्भवादवश्यं ज्ञेयत्वात्तज्ञानाभावे तदनुपपत्तेः कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः ।

आद्यकोटौ द्वितीयकल्पं शङ्कते –

ज्ञेयेति ।

वैनाशिकमतेऽप्यभावस्य ज्ञेयत्वाभ्युपगमाद्बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तदिति प्रतिसङ्ख्याऽप्रतिसङ्ख्या निरोधाकाशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्याभावस्य नित्यत्वाङ्गीकारेण तदविज्ञानसन्ततेर्नित्यत्वाङ्गीकारेण त्वया तदाऽपि तदभावो वक्तुं न शक्यत इत्याह –

न सुषुप्त इति ।

अस्तित्वमिति ।

तथा च ज्ञानस्यादर्शनमसिद्धं सुषुप्तेऽपि तदङ्गीकारादित्यर्थः ।

ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया सुषुप्ते च स्वस्यैव स्वज्ञेयत्वाज्ज्ञानदर्शनमुपपद्यतेऽस्मन्मते । त्वन्मते तु स्वज्ञेयत्वानङ्गीकारात्सुषुप्ते चान्यस्याभावान्निरूपकाभावान्न ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते –

तत्रापीति ।

अभावस्थले ज्ञानज्ञेययोर्भेदस्य साधितत्वात्तद्दृष्टान्तेन सर्वत्र ज्ञानज्ञेययोर्भेदसाधनान्न स्वज्ञेयत्वं ज्ञानस्येत्याह –

न भेदस्येति ।

अभावरूपो ज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपो यो ज्ञेयस्तद्व्यतिरेकादित्यर्थः ।

अभावस्थले भेदेऽपि न सर्वत्रेत्याशङ्क्य न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्यमित्याह –

न हीति ।

ज्ञानस्य स्वव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैनाशिकः शङ्कते –

ज्ञानस्येति ।

ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादस्मन्मते च ज्ञानस्य ज्ञेयत्वानङ्गीकारान्न दोष इत्याह –

न तदिति ।

सर्वस्य वस्तुजातस्य विभागोऽसङ्करो ज्ञानं ज्ञानमेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवंरूपस्तस्योपपत्तेरित्यर्थः । अथवा द्विभागोपपत्तेरिति च्छेदः । ज्ञानज्ञेयरूपभागद्वयमेव राशिद्वयमेवाङ्गी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भावराशिरङ्गी क्रियत इत्यर्थः ।

तामेवाऽऽह –

यदा हीति ।

यस्मिन्पक्षे ज्ञेयं सर्वं स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमित्यङ्गी क्रियत इति ज्ञेयपदावृत्त्या स्वव्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः ।

तद्विषय इति ।

ज्ञानविषयकज्ञानात्मक इत्यर्थः ।

तर्हि त्वत्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते –

ज्ञानस्येति ।

ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शशविषाणादेरज्ञानात्सर्वज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः किन्तु वैनाशिकस्यैव, तेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूर्वग्रन्थे दूषितत्वादन्यज्ञेयत्वस्य चानङ्गीकारात्सर्वज्ञत्वायोगादित्याह –

सोऽपीति ।

तर्हि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्क्यास्मन्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह –

किं तदिति ।

वस्तुतस्तु सर्वस्य व्यवहारहेतुज्ञानवत्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्रकाशत्वेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः ।

पूर्वोक्तानवस्थादोषोऽपि तस्यैवेत्याह –

अनवस्थेति ।

ननु तेन स्वेनैव ज्ञेयत्वाङ्गीकारान्नानवस्थेत्यत आह –

स्वात्मना चेति ।

सिद्धं हीत्यत्र स्वज्ञेयत्वासम्भवस्योक्तत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनिवार्येत्यर्थः ।

ज्ञानस्याज्ञेयत्वे तद्व्यवहारासिद्धर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते –

समान एवेति ।

स्वप्रकाशत्वेन स्वव्यवहारसिद्धेर्ज्ञानभेदस्यैवास्माभिरनङ्गीकारादनवस्थायाः प्रसक्तिरेव नास्तीति परिहरति –

न ज्ञानस्येति ।

एकत्वपक्षे भेदप्रतीतिमुपपादयति –

नामरूपेति ।

एवं च चैतन्यस्यैकत्वेन नित्यत्वाज्जगद्भिन्नत्वेन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्तेस्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यर्थमिहोच्यत इत्याह –

तथा चेहेति ।

चैतन्यस्य नित्यत्वेनाधिष्ठानत्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः ।

ननु चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वादिति शङ्कते –

नन्विति ।

शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरोधादित्याह –

नेति ।

अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह –

कलेति ।

स्वोत्पत्तेः पूर्वं स्वस्याभावात्तत्कालीनपुरुषं परिच्छेत्तुं न शक्नोतीत्यर्थः ।

बीजकार्यस्य वृक्षस्य कार्यं फलं स्वकारणवृक्षकारणं बीजमभ्यन्तरीकरोतीति दृष्टमिति नायोग्यत्वमिति शङ्कते –

बीजवृक्षादिवदिति ।

तद्विवृणोति –

यथेति ।

दृष्टाने बीजव्यक्तिभेदादविरोधेऽपीह पुरुषव्यक्त्यैक्यात्कारणत्वाभ्यन्तरीभावयोर्विरोध इत्याह –

नेति ।

ननु कारणीभूतबीजस्यैव वृक्षफलतदन्तर्गतबीजरूपेण परिणामात्तयोः कारणकार्ययोर्बीजयोरैक्यमाशङ्क्यैवमपि तस्य सावयवत्वाद्वृक्षवत्फलाकारेण परिणतावयवेभ्यो भिन्नावयवानामेव तदन्तर्गतबीजरूपेण परिणामात्तयोर्भेदेनाऽऽधाराधेयभावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह –

सावयवत्वाच्चेति ।

आद्यं हेतुं विवृणोति –

दृष्टान्त इति ।

श्रूयत इति ।

यस्मिन्नेताः षोडश कला इति यच्छब्दोक्तस्यैव पुरुषस्यान्तःशरीरे सोम्य स पुरुष इति तच्छब्देनाभिधानादित्यर्थः ।

द्वितीयं हेतुं विवृणोति –

बीजेति ।

निरवयवश्चेति ।

तथा चैकदेशेन कलादिरूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन्न सम्भवतीत्यर्थः ।

किञ्च कलानां सावयवत्वेन परिच्छेदात्पुरुषस्य तद्विपरीतत्वादपरिच्छिन्नस्य न परिच्छिन्नाधारकत्वं सम्भवतीत्याह –

सावयवाश्चेति ।

यद्वा सावयवत्वेन कार्यतया मृषात्वान्निरवयवतया परमार्थसत्यपुरुषाधारत्वं नोपपद्यत इत्याह –

सावयवाश्चेति ।

नन्वाकाशकार्यशरीर आकाशस्यापरिच्छिन्नस्याभ्यन्तरीभावो दृष्ट इत्याशङ्क्य तस्यापि शरीराकारेणावस्थानमेव च्छिद्रादिविशिष्टस्यैव शरीरत्वान्न तु तदन्तःस्थत्वमित्याह –

एतेनेति ।

युक्त्यसहमपि वचनप्रामाण्यादङ्गीकार्यमिति शङ्कते –

किं दृष्टान्तेनेति ।

वचनस्यापि वस्तुनोऽन्यथाकरणे सामर्थ्याभावाद्वस्तुस्वरूपाविरोधेनैव बोधकत्वादन्यथा विचारवैयर्थ्याद्विरुद्धार्थो न बोधार्ह इत्याह –

वचनस्येति ।

तर्ह्यन्तःशरीर इति श्रुतेः कथमुपपत्तिरित्याशङ्क्य पुरुषस्य शरीरोपादानत्वेन तदनुस्यूतस्य तदन्तर्गतवत्प्रतीतेस्तदभिप्रयेयं श्रुतिरिति सदृष्टान्तमाह –

तस्मादिति ।

अण्डेति ।

अण्डकारणस्य व्योम्नो यथा तदनुस्यूतत्वेन तदन्तर्गतत्वप्रतीतिस्तद्वदित्यर्थः ।

यद्वा लोकभ्रमसिद्धं परिच्छिन्नत्वमनूद्यते श्रुत्येत्याह –

उपलब्धीति ।

तत्राभिव्यक्तेर्वा तदन्तर्गतत्वव्यपदेश इत्याह –

उपलभ्यते चेति ॥ २ ॥