प्रश्नोपनिषद्भाष्यम्
आनन्दगिरिटीका (प्रश्न)
 
स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ३ ॥
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणार्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते । चेतनपूर्विका च सृष्टिरित्येवमर्थं च । स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे — कृतवानित्यर्थः — सृष्टिफलक्रमादिविषयम् । कथमिति, उच्यते — कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव ; कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः । नन्वात्मा अकर्ता प्रधानं कर्तृ ; अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण ; तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्ववचनम् , सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान्बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतक्रमेण प्रवर्तमानेऽचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षाञ्चक्रे इत्यादिः ; यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत् । न ; आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः — यथा साङ्‍ख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वम् , तद्वद्वेदवादिनामीक्षापूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तं चिन्मात्रस्वरूपविक्रियातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत् , न ; एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमात् । अविद्याकृतनामरूपोपाधिनिमित्तो हि विशेषोऽभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय । परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगम्यं ह्यजमभयं शिवमिष्यते । न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वैतत्वात्सर्वभावानाम् । साङ्‍ख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति । तत्त्वान्तरं च प्रधानं पुरुषाद्बाह्यं परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । तथेतरेतार्किकाः साङ्ख्यैः ; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषार्थिन इव प्राणिनोऽन्योन्यविरुध्यमानार्थदर्शित्वात्परमार्थतत्त्वाद्दूरमेवापकृष्यन्ते । अतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यतेऽस्माभिः ; न तु तार्किकवत्तात्पर्येण । तथैतदत्रोक्तम् — विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥ किञ्च, भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः । का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्त्रेव न भोक्तृ इति । ननु उक्तं पुरुषश्चिन्मात्र एव ; स च स्वात्मस्थो विक्रियते भुञ्जानः, न तत्त्वान्तरपरिणामेन । प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते ; अतो नैकमशुद्धमचेतनं चेत्यादिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेषः, वाङ्मात्रत्वात् । प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेत् ; महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत् , न तर्हि परमार्थतो भोगः पुरुषस्य । अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेत् , न ; प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्भोक्तृकत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत् , औष्ण्याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः । प्रधानपुरुषयोर्द्वयोर्युगपद्भोक्तृत्वमिति चेत् , न ; प्रधानस्य पारार्थ्यानुपपत्तेः — न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयादविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् , न ; पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् । भोगरूपश्चेदनर्थः पुरुषस्य नास्मि सदा निर्विशेषत्वात्पुरुषस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत् , परमार्थतः पुरुषो भोक्तैव, न कर्ता ; प्रधानं कर्त्रेव न भोक्तृ परमार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्थानिर्हेतुका च इति नादर्तव्या मुमुक्षुभिः । एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेत् , न ; अभावात् — सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमर्थवदनर्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति ; तदभावे एवं विकल्पनैवानुपपन्ना । अभ्युपगते आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता । तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम् ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १४) इत्यादि ; शास्त्रप्रणयनाद्युपपत्तिं चाह अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४ । ५ । १४) इत्यादि विस्तरतो वाजसनेयके । अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य । अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्ते इहात्मैकत्वविषये इति । एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये उपचारो राजा कर्तेति, सोऽत्रानुपपन्नः ; ‘स ईक्षाञ्चक्रे’ इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य, यत्र मुख्यार्थो न सम्भवति । इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते ; यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना । ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते ॥
यस्मिन्निति ; अत इति ; चेतनेति ; सृष्टीति ; नन्वात्मेति ; आत्मनोऽपीति ; प्रधानमिति ; कर्त्रिति ; पुरुषार्थमिति ; सत्त्वादिति ; ईश्वरेच्छेति ; तस्मादिति ; पुरुषार्थेनेति ; यथा राज्ञ इति ; तद्वदिति ; नेति ; श्रुतिप्रामाण्यादिति ; तत्त्वान्तरेति ; नेति ; नामरूपेति ; सर्वेति ; तत्रेति ; कल्पयित्वेति ; इत्येवमिति ; अन्येति ; तथेति ; अत इति ; विरोधोद्भवकारणमिति ; संरक्षितेति ; किञ्चेत्यादिना ; भोक्तृत्वेति ; नन्विति ; स्वात्मस्थी विक्रियत इति ; तत्त्वन्तरेति ; नासाविति ; प्रागिति ; अस्यां कल्पनायामिति ; अथेति ; चिन्मात्र एवेति ; न तर्हीति ; भोगकाल इति ; नेति ; चिन्मात्रस्यैवेति ; औष्ण्येति ; प्रधानेति ; नेति ; भोगधर्मवतीति ; सत्त्वाङ्गिनीति ; नेति ; भोगरूपश्चेदिति ; अविद्येति ; अनर्थेति ; परमार्थत इति ; इति नाऽऽदर्तव्येति ; एकत्वेऽपीति ; नाभावादिति ; न ह्यात्मैकत्व इति ; अभ्युपगत इति ; प्रमाणार्थ इति ; तदभ्युपगमे चेति ; शास्त्रप्रणयनेति ; अन्यत्रेति ; अत्र चेति ; अत इति ; राजप्रमाणेति ; एतेनेति ; आत्मेति ; यस्त्विति ; तत्र हि गौणीति ; इह त्विति ; यथोक्तेति ॥ ३ ॥ ;

ननु यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्यनेनाध्यारोपस्योक्तत्वात्स ईक्षामित्यादिना पुनः सृष्टिकथनमधिकमित्यत आह –

यस्मिन्निति ।

अत इति ।

क्रमप्रतिपत्त्यर्थं स ईक्षामित्याद्युच्यत इत्यर्थः । तत्प्रतिपत्तिश्च कलोत्पत्तिप्रतिपत्तिसौकर्यार्थं विपर्ययेण तु क्रमोऽत उपपद्यते चेति न्यायेन कार्यस्य स्वस्वकारणक्रमेणापवादसौकर्यार्थं चेत्यर्थः ।

ईक्षणोक्तेः प्रयोजनमाह –

चेतनेति ।

सृष्टीति ।

सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणाच्छ्रद्धामित्याद्युक्तानन्तर्यम् । आदिशब्देन लोकेषु नाम चेत्याधाराधेयविशेषो गृह्यते ।

नन्वीक्षणोक्त्या न चेतनपूर्वकत्वसिद्धिर्न्यायेन चेतनस्याकर्तृत्वेनाहेतुत्वेऽचेतनस्य प्रधानादेर्विक्रियावत्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति साङ्ख्याः शङ्कते –

नन्वात्मेति ।

अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृत्ववचनमनुपपन्नमित्यर्थः ।

किञ्च तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुः कुलालादेरिव सहकारिसाधनान्तराभावादात्मनो दुःखाद्यनर्थहेतुप्राणादिसंसारकर्तृत्वानुपपत्तेश्चानुपपन्नं स्रष्टृत्ववचनमित्याह –

आत्मनोऽपीति ।

कर्तृत्वेऽपीत्यपिशब्दान्वयः ।

तर्हि किं कर्त्रत आह –

प्रधानमिति ।

कर्त्रिति ।

क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः ।

ननु प्रधानस्याचेतनस्य प्रयोजनापेक्षाभावात्प्रवृत्त्यनुपपत्तिरित्यत आह –

पुरुषार्थमिति ।

पुरुषस्य चेतनस्य भोगापवर्गरूपमर्थं प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृद्ध्यर्थमचेतनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्ध्यर्थमम्बुनश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः ।

ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वानुपपत्तावगत्या चेतनस्यैव कथञ्चित्कर्तृत्वं वाच्यमित्यत आह –

सत्त्वादिति ।

सत्त्वादिगुणत्रयस्य साम्यावस्था प्रधानमिति साङ्ख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनमगतेरभावादनुपपन्नमित्यन्वयः ।

यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि परमाणुकारणवादोऽस्तु तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह –

ईश्वरेच्छेति ।

अत्रापि सत्स्वित्यस्यानुपपन्नमिति पूर्वेणान्वयः ।

तर्हीक्षणश्रवणस्य का गतिरत आह –

तस्मादिति ।

पुरुषार्थेनेति ।

पुरुषस्य भोगापवर्गार्थेनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादैक्षतेति गौणः प्रयोगो माणवके पैङ्गल्यगुणयोगेनाग्निशब्दप्रयोगवदित्यर्थः ।

नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह –

यथा राज्ञ इति ।

तद्वदिति ।

पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः ।

स्वतोऽकर्तुरप्यात्मनो मायोपाधिककर्तृत्वं सम्भवतीति हृदि निधाय प्रथममापाततः प्रतिबन्द्या परिहरति –

नेति ।

बुद्धिः कर्त्री भोक्ता पुरुष इति वदद्भिः साङ्ख्यैरात्मनो भोक्तृत्वमुक्तमित्यर्थः ।

श्रुतिप्रामाण्यादिति ।

श्रुत्युक्तजगत्कर्तृत्वमविकारिणोऽपि कथञ्चिन्निर्वाह्यमित्यर्थः ।

साङ्ख्यः प्रतिबन्दिपरिहारं शङ्कते ।

तत्त्वान्तरेति ।

भोगो नाम सुखदुःखानुभवः स च पुरुषस्य स्वरूपभूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च सजातीयरूपान्तरापत्तौ विजातीयरूपान्तरापत्तौ वाऽनित्यत्वादिकमावहेदेवेति भोज्याविवेकोपाधिकं भोक्तृत्वमङ्गीकर्तव्यम् ।

तेन तदात्मककर्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह –

नेति ।

एकस्य वस्तुतोऽसहायस्याकर्तुराप्तकामस्यापीत्यपरेर्थः । उपाधिकृतकर्तृत्वसम्भवादविद्यारूपसहायस्य सम्भवाद्भ्रान्त्या स्वस्माद्भिन्नजीवानामनाप्तकामानां सम्भवात्तत्पुरुषार्थार्थं स्रष्टृत्वं तथाविधिस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः ।

नामरूपेति ।

अनभिव्यक्तनामरूपेत्यर्थः । बन्धमोक्षादीत्यादिशब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् ।

परमार्थस्य श्रुत्येकगम्यत्वमाह –

सर्वेति ।

एवम्भूतस्याऽऽत्मनो न स्रष्ट्रुत्वमित्याह –

तत्रेति ।

कल्पयित्वेति ।

कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृत्वाद्ययोगात्तदारोपितमेवेति कल्पयितुं प्रवृत्ता अपि सर्वविरोधनिरासकागमप्रमाणैकशरणत्वाभावात्प्रत्यक्षादिविरोधापत्त्याऽऽरोपितत्वाङ्गीकाराच्च त्रस्यन्तः सर्वे परमार्थत एवेच्छन्ति । तत्राप्यचेतनस्य भोक्तृत्वायोगात्तन्मात्रमात्मनोऽङ्गीकुर्वन्ति । कर्तृत्वादिकं तु प्रधानस्याङ्गीकुर्वन्तीत्यर्थः ।

तर्हि कस्य तार्किकस्य मतं ग्राह्यमित्याशङ्क्य न कस्यापीत्याह –

इत्येवमिति ।

तर्हि तस्य को दोष इत्याशङ्क्य भोक्तृत्वाङ्गीकारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वमतात्प्रच्यवन्त इत्याह –

अन्येति ।

कृतायाः शिक्षिताया बुद्धेर्विषया अधीनाः शिक्षितबुद्धय इत्यर्थः ।

तर्हि साङ्ख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह –

तथेति ।

तस्यापि साङ्ख्येन शिक्षितत्वान्न तदपि ग्राह्यमित्यर्थः । तर्हि त्वया तार्किकमतं किमर्थं दूष्यते ।

परस्परमेव तैर्दूषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाच्चेत्यत आह –

अत इति ।

विरोधोद्भवकारणमिति ।

पारमार्थिकतया भेददर्शनमित्यर्थः ।

संरक्षितेति ।

भेददर्शनस्य परस्परोक्तदोषग्रस्तत्वादद्वैतमेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्यः उपशान्तो भवतीत्यर्थः ।

दोषप्रदर्शनं किञ्चित्क्रियत इति यदुक्तं तदेव प्रपञ्चयन्कर्तृत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह –

किञ्चेत्यादिना ।

तत्राऽऽदौ भोक्तृत्वकर्तृत्वयोर्विशेषस्य वक्तुमशक्यत्वात्तयोराश्रयव्यवस्था न सम्भवतीत्याह –

भोक्तृत्वेति ।

आशयमविद्वाञ्शङ्कावसरोक्तं विशेषं शङ्कते –

नन्विति ।

स्वात्मस्थी विक्रियत इति ।

चिद्रूपेण विक्रियत इत्यर्थः ।

तत्त्वन्तरेति ।

अनेकत्वाशुद्ध्यादियुक्तस्वविलक्षणमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिरशुद्ध्यादिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्ध्यादिकं स्यादित्यर्थः । किञ्चिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यत्वाद्यापत्त्या प्रधानादविशेषः ।

भोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्प्रधानस्यापि प्रलये तथात्वाङ्गीकारान्न तयोर्विशेषः स्यादिति दूषयति –

नासाविति ।

सङ्ग्रहवाक्यं विवृणोति –

प्रागिति ।

अस्यां कल्पनायामिति ।

चिद्रूपेण तत्त्वान्तररूपेण विक्रियाकल्पनायामपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोर्विशिष्टविक्रियेति वाङ्मात्रेणैव कल्प्यत उच्यत इत्यर्थः ।

द्वितीयं शङ्कते –

अथेति ।

चिन्मात्र एवेति ।

न त्वागन्तुकं रूपान्तरमित्यर्थः ।

तर्हि कर्मजन्यः कादाचित्को भोगो न सिध्येदित्याह –

न तर्हीति ।

एतद्दोषपरिहारायाऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामात्रं भोगः स च पुरुषस्यैव न प्रधानस्येति भोगसदसत्त्वविशेषमात्रेण शङ्कते –

भोगकाल इति ।

तत्रापि किं भोगकालीनविक्रियामात्रं भोग उत तत्कालीनचिन्मात्रगतविक्रिया भोग इति विकल्प्याऽऽद्ये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्याह –

नेति ।

द्वितीयं शङ्कते –

चिन्मात्रस्यैवेति ।

चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्म्यन्तरगतविक्रियानपेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रियां विना भोगासिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेत्वभावात्स्वासाधारणविक्रिया भोग इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासाधारणविक्रियावत्त्वात् । भोगकालीनासाधारणविक्रियावत्त्वं तु प्रधानस्याप्यस्ति ।

तत्कालीनसुखादिविक्रियावत्त्वादिति दूषयति –

औष्ण्येति ।

ननु भोगकालीन साधारणविक्रियैव भोगः । न चाग्न्यादेस्तत्काले नियमेन विक्रियाऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते –

प्रधानेति ।

भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह –

नेति ।

ननु भोगः सत्त्वगुणप्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेर्न पुरुषस्य तस्याविक्रियत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिबिम्बितत्वमात्रेण भोक्तृत्वव्यपदेश इति शङ्कते –

भोगधर्मवतीति ।

सत्त्वाङ्गिनीति ।

सत्वगुणोऽङ्गी प्रधानं यस्य तस्मिंश्चेतसीत्यर्थः ।

तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह –

नेति ।

किञ्चास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थं स्यादित्याह –

भोगरूपश्चेदिति ।

आद्ये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्यविशेषवत्त्वे पुरुषस्य विकारित्वं स्यादिति मनसि सन्निधायास्याऽऽरोपितविशेषवत्त्वमस्तीत्याद शङ्कते –

अविद्येति ।

अनर्थेति ।

भोगरूपेत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य प्रधानादेश्चाऽऽरोपत्वमेवाङ्गीकर्तुं युक्तं नार्धवैशसमस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिध्युपपत्तेः ।

तथा कल्पनायां प्रयोजनाभावात्प्रमाणाभावात्प्रत्युत सर्वश्रुतिविरोधापत्तेश्चेत्याह –

परमार्थत इति ।

पुरुषाद्वस्त्वन्तरं च प्रधानमित्यन्वयः ।

उक्तदोषजातं साङ्ख्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्याशयेनाऽऽह –

इति नाऽऽदर्तव्येति ।

आत्मैकत्वपक्षेऽपि निरसनीयबन्धाभावाच्छास्त्रप्रणयनानर्थक्यमिति शङ्कते –

एकत्वेऽपीति ।

किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्थक्यमुच्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽद्यं प्रति प्रणयनाभावादानर्थक्यदोषाभावमाह –

नाभावादिति ।

दोषापादनाभावादित्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –

न ह्यात्मैकत्व इति ।

निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्राद्यभाव इयं कल्पनैवार्हवदनर्थकं चेति विकल्पनैवानुपपन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्यनेनैकत्वनिश्चयाभावोऽभिधीयते ।

तदानीं निरसनीयबन्धादिसत्वादियं कल्पना बन्धनिवृत्त्यर्थं शास्त्रप्रणयनकल्पना नानुपपन्नेति योज्यम् । किञ्च अात्मैकत्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभवसिद्धत्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह –

अभ्युपगत इति ।

प्रमाणार्थ इति ।

प्रमाणस्य शास्त्रस्यार्थः प्रयोजनमित्यर्थः ।

एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्पनाभावः श्रुत्याऽप्युक्त इत्याह –

तदभ्युपगमे चेति ।

अत्राभ्युपगमो निश्चयः ।

एकत्वनिश्चयाभावदशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमित्याह –

शास्त्रप्रणयनेति ।

अनेन द्वितीयकल्पो निरस्तः ।

श्रुतिगतं यत्रपदं व्याचष्टे –

अन्यत्रेति ।

अथर्वणीयमन्त्रोपनिषदि द्वे विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या ऋग्वेदादिरूपा परा त्वदृश्यत्वादिगुणकप्रत्यस्तमितसर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययोर्विषयभेदः शास्त्रस्याऽऽदावेव सूचित इत्याह –

अत्र चेति ।

अद्वैतवादे सर्वशङ्कानां श्रुतिप्रामाण्येनैव निरासात्तार्किकोत्प्रेक्षितशङ्काशूकस्यापि नात्र प्रवेश इत्युपसंहरति –

अत इति ।

राजप्रमाणेति ।

प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाणमेव राजेव राजा तद्बाहवस्तदुक्तन्यायास्तैर्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्किकभटैर्योधैर्न प्रवेश्य इत्यन्वयः ।

पूर्ववाद्युक्तं दोषं निराकरोति –

एतेनेति ।

उपाधिकृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वादित्यर्थः ।

आत्मेति ।

आत्मनो योऽनर्थः संसारस्तत्कर्तृत्वमित्यर्थः । आदिशब्देनाऽऽप्तकामत्वेन प्रयोजनापेक्षानुपपत्तिः सङ्गृहीता । कल्पनया स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदीयकर्मफलदानार्थं चाऽऽप्तकामस्यापि सृष्ट्यादिप्रवृत्तिः सम्भवति । सर्वव्यवहारस्यापि स्वप्नतुल्यत्वाद्वा स्वप्न इव सर्वमप्युपपद्यत इति सूत्रभाष्यादावेव परिहृत इत्यर्थः ।

साङ्ख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिरुक्ता तामनूद्य निराकरोति –

यस्त्विति ।

यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्क्याऽऽह –

तत्र हि गौणीति ।

प्रधानपक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टृत्वमपि न सम्भवतीत्याह –

इह त्विति ।

मुक्तान्वर्जयित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया बन्धमोक्षादिशब्दितभोगापवर्गार्था व्यवस्थिता प्रवृत्तिर्नोपपद्यत इत्यर्थः । अनेन पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् ।

ईश्वरकारणवादे तु न कोऽपि दोष इत्याह –

यथोक्तेति ॥ ३ ॥