ननु यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्यनेनाध्यारोपस्योक्तत्वात्स ईक्षामित्यादिना पुनः सृष्टिकथनमधिकमित्यत आह –
यस्मिन्निति ।
अत इति ।
क्रमप्रतिपत्त्यर्थं स ईक्षामित्याद्युच्यत इत्यर्थः । तत्प्रतिपत्तिश्च कलोत्पत्तिप्रतिपत्तिसौकर्यार्थं विपर्ययेण तु क्रमोऽत उपपद्यते चेति न्यायेन कार्यस्य स्वस्वकारणक्रमेणापवादसौकर्यार्थं चेत्यर्थः ।
ईक्षणोक्तेः प्रयोजनमाह –
चेतनेति ।
सृष्टीति ।
सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणाच्छ्रद्धामित्याद्युक्तानन्तर्यम् । आदिशब्देन लोकेषु नाम चेत्याधाराधेयविशेषो गृह्यते ।
नन्वीक्षणोक्त्या न चेतनपूर्वकत्वसिद्धिर्न्यायेन चेतनस्याकर्तृत्वेनाहेतुत्वेऽचेतनस्य प्रधानादेर्विक्रियावत्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति साङ्ख्याः शङ्कते –
नन्वात्मेति ।
अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृत्ववचनमनुपपन्नमित्यर्थः ।
किञ्च तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुः कुलालादेरिव सहकारिसाधनान्तराभावादात्मनो दुःखाद्यनर्थहेतुप्राणादिसंसारकर्तृत्वानुपपत्तेश्चानुपपन्नं स्रष्टृत्ववचनमित्याह –
आत्मनोऽपीति ।
कर्तृत्वेऽपीत्यपिशब्दान्वयः ।
तर्हि किं कर्त्रत आह –
प्रधानमिति ।
कर्त्रिति ।
क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः ।
ननु प्रधानस्याचेतनस्य प्रयोजनापेक्षाभावात्प्रवृत्त्यनुपपत्तिरित्यत आह –
पुरुषार्थमिति ।
पुरुषस्य चेतनस्य भोगापवर्गरूपमर्थं प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृद्ध्यर्थमचेतनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्ध्यर्थमम्बुनश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः ।
ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वानुपपत्तावगत्या चेतनस्यैव कथञ्चित्कर्तृत्वं वाच्यमित्यत आह –
सत्त्वादिति ।
सत्त्वादिगुणत्रयस्य साम्यावस्था प्रधानमिति साङ्ख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनमगतेरभावादनुपपन्नमित्यन्वयः ।
यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि परमाणुकारणवादोऽस्तु तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह –
ईश्वरेच्छेति ।
अत्रापि सत्स्वित्यस्यानुपपन्नमिति पूर्वेणान्वयः ।
तर्हीक्षणश्रवणस्य का गतिरत आह –
तस्मादिति ।
पुरुषार्थेनेति ।
पुरुषस्य भोगापवर्गार्थेनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादैक्षतेति गौणः प्रयोगो माणवके पैङ्गल्यगुणयोगेनाग्निशब्दप्रयोगवदित्यर्थः ।
नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह –
यथा राज्ञ इति ।
तद्वदिति ।
पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः ।
स्वतोऽकर्तुरप्यात्मनो मायोपाधिककर्तृत्वं सम्भवतीति हृदि निधाय प्रथममापाततः प्रतिबन्द्या परिहरति –
नेति ।
बुद्धिः कर्त्री भोक्ता पुरुष इति वदद्भिः साङ्ख्यैरात्मनो भोक्तृत्वमुक्तमित्यर्थः ।
श्रुतिप्रामाण्यादिति ।
श्रुत्युक्तजगत्कर्तृत्वमविकारिणोऽपि कथञ्चिन्निर्वाह्यमित्यर्थः ।
साङ्ख्यः प्रतिबन्दिपरिहारं शङ्कते ।
तत्त्वान्तरेति ।
भोगो नाम सुखदुःखानुभवः स च पुरुषस्य स्वरूपभूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च सजातीयरूपान्तरापत्तौ विजातीयरूपान्तरापत्तौ वाऽनित्यत्वादिकमावहेदेवेति भोज्याविवेकोपाधिकं भोक्तृत्वमङ्गीकर्तव्यम् ।
तेन तदात्मककर्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह –
नेति ।
एकस्य वस्तुतोऽसहायस्याकर्तुराप्तकामस्यापीत्यपरेर्थः । उपाधिकृतकर्तृत्वसम्भवादविद्यारूपसहायस्य सम्भवाद्भ्रान्त्या स्वस्माद्भिन्नजीवानामनाप्तकामानां सम्भवात्तत्पुरुषार्थार्थं स्रष्टृत्वं तथाविधिस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः ।
नामरूपेति ।
अनभिव्यक्तनामरूपेत्यर्थः । बन्धमोक्षादीत्यादिशब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् ।
परमार्थस्य श्रुत्येकगम्यत्वमाह –
सर्वेति ।
एवम्भूतस्याऽऽत्मनो न स्रष्ट्रुत्वमित्याह –
तत्रेति ।
कल्पयित्वेति ।
कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्वस्तुतः कर्तृत्वाद्ययोगात्तदारोपितमेवेति कल्पयितुं प्रवृत्ता अपि सर्वविरोधनिरासकागमप्रमाणैकशरणत्वाभावात्प्रत्यक्षादिविरोधापत्त्याऽऽरोपितत्वाङ्गीकाराच्च त्रस्यन्तः सर्वे परमार्थत एवेच्छन्ति । तत्राप्यचेतनस्य भोक्तृत्वायोगात्तन्मात्रमात्मनोऽङ्गीकुर्वन्ति । कर्तृत्वादिकं तु प्रधानस्याङ्गीकुर्वन्तीत्यर्थः ।
तर्हि कस्य तार्किकस्य मतं ग्राह्यमित्याशङ्क्य न कस्यापीत्याह –
इत्येवमिति ।
तर्हि तस्य को दोष इत्याशङ्क्य भोक्तृत्वाङ्गीकारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वमतात्प्रच्यवन्त इत्याह –
अन्येति ।
कृतायाः शिक्षिताया बुद्धेर्विषया अधीनाः शिक्षितबुद्धय इत्यर्थः ।
तर्हि साङ्ख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह –
तथेति ।
तस्यापि साङ्ख्येन शिक्षितत्वान्न तदपि ग्राह्यमित्यर्थः । तर्हि त्वया तार्किकमतं किमर्थं दूष्यते ।
परस्परमेव तैर्दूषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाच्चेत्यत आह –
अत इति ।
विरोधोद्भवकारणमिति ।
पारमार्थिकतया भेददर्शनमित्यर्थः ।
संरक्षितेति ।
भेददर्शनस्य परस्परोक्तदोषग्रस्तत्वादद्वैतमेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्यः उपशान्तो भवतीत्यर्थः ।
दोषप्रदर्शनं किञ्चित्क्रियत इति यदुक्तं तदेव प्रपञ्चयन्कर्तृत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह –
किञ्चेत्यादिना ।
तत्राऽऽदौ भोक्तृत्वकर्तृत्वयोर्विशेषस्य वक्तुमशक्यत्वात्तयोराश्रयव्यवस्था न सम्भवतीत्याह –
भोक्तृत्वेति ।
आशयमविद्वाञ्शङ्कावसरोक्तं विशेषं शङ्कते –
नन्विति ।
स्वात्मस्थी विक्रियत इति ।
चिद्रूपेण विक्रियत इत्यर्थः ।
तत्त्वन्तरेति ।
अनेकत्वाशुद्ध्यादियुक्तस्वविलक्षणमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिरशुद्ध्यादिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्ध्यादिकं स्यादित्यर्थः । किञ्चिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यत्वाद्यापत्त्या प्रधानादविशेषः ।
भोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्प्रधानस्यापि प्रलये तथात्वाङ्गीकारान्न तयोर्विशेषः स्यादिति दूषयति –
नासाविति ।
सङ्ग्रहवाक्यं विवृणोति –
प्रागिति ।
अस्यां कल्पनायामिति ।
चिद्रूपेण तत्त्वान्तररूपेण विक्रियाकल्पनायामपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोर्विशिष्टविक्रियेति वाङ्मात्रेणैव कल्प्यत उच्यत इत्यर्थः ।
द्वितीयं शङ्कते –
अथेति ।
चिन्मात्र एवेति ।
न त्वागन्तुकं रूपान्तरमित्यर्थः ।
तर्हि कर्मजन्यः कादाचित्को भोगो न सिध्येदित्याह –
न तर्हीति ।
एतद्दोषपरिहारायाऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामात्रं भोगः स च पुरुषस्यैव न प्रधानस्येति भोगसदसत्त्वविशेषमात्रेण शङ्कते –
भोगकाल इति ।
तत्रापि किं भोगकालीनविक्रियामात्रं भोग उत तत्कालीनचिन्मात्रगतविक्रिया भोग इति विकल्प्याऽऽद्ये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्याह –
नेति ।
द्वितीयं शङ्कते –
चिन्मात्रस्यैवेति ।
चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्म्यन्तरगतविक्रियानपेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रियां विना भोगासिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेत्वभावात्स्वासाधारणविक्रिया भोग इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासाधारणविक्रियावत्त्वात् । भोगकालीनासाधारणविक्रियावत्त्वं तु प्रधानस्याप्यस्ति ।
तत्कालीनसुखादिविक्रियावत्त्वादिति दूषयति –
औष्ण्येति ।
ननु भोगकालीन साधारणविक्रियैव भोगः । न चाग्न्यादेस्तत्काले नियमेन विक्रियाऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते –
प्रधानेति ।
भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह –
नेति ।
ननु भोगः सत्त्वगुणप्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेर्न पुरुषस्य तस्याविक्रियत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिबिम्बितत्वमात्रेण भोक्तृत्वव्यपदेश इति शङ्कते –
भोगधर्मवतीति ।
सत्त्वाङ्गिनीति ।
सत्वगुणोऽङ्गी प्रधानं यस्य तस्मिंश्चेतसीत्यर्थः ।
तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह –
नेति ।
किञ्चास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थं स्यादित्याह –
भोगरूपश्चेदिति ।
आद्ये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्यविशेषवत्त्वे पुरुषस्य विकारित्वं स्यादिति मनसि सन्निधायास्याऽऽरोपितविशेषवत्त्वमस्तीत्याद शङ्कते –
अविद्येति ।
अनर्थेति ।
भोगरूपेत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य प्रधानादेश्चाऽऽरोपत्वमेवाङ्गीकर्तुं युक्तं नार्धवैशसमस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिध्युपपत्तेः ।
तथा कल्पनायां प्रयोजनाभावात्प्रमाणाभावात्प्रत्युत सर्वश्रुतिविरोधापत्तेश्चेत्याह –
परमार्थत इति ।
पुरुषाद्वस्त्वन्तरं च प्रधानमित्यन्वयः ।
उक्तदोषजातं साङ्ख्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्याशयेनाऽऽह –
इति नाऽऽदर्तव्येति ।
आत्मैकत्वपक्षेऽपि निरसनीयबन्धाभावाच्छास्त्रप्रणयनानर्थक्यमिति शङ्कते –
एकत्वेऽपीति ।
किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्थक्यमुच्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽद्यं प्रति प्रणयनाभावादानर्थक्यदोषाभावमाह –
नाभावादिति ।
दोषापादनाभावादित्यर्थः ।
सङ्ग्रहवाक्यं विवृणोति –
न ह्यात्मैकत्व इति ।
निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्राद्यभाव इयं कल्पनैवार्हवदनर्थकं चेति विकल्पनैवानुपपन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्यनेनैकत्वनिश्चयाभावोऽभिधीयते ।
तदानीं निरसनीयबन्धादिसत्वादियं कल्पना बन्धनिवृत्त्यर्थं शास्त्रप्रणयनकल्पना नानुपपन्नेति योज्यम् । किञ्च अात्मैकत्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभवसिद्धत्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह –
अभ्युपगत इति ।
प्रमाणार्थ इति ।
प्रमाणस्य शास्त्रस्यार्थः प्रयोजनमित्यर्थः ।
एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्पनाभावः श्रुत्याऽप्युक्त इत्याह –
तदभ्युपगमे चेति ।
अत्राभ्युपगमो निश्चयः ।
एकत्वनिश्चयाभावदशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमित्याह –
शास्त्रप्रणयनेति ।
अनेन द्वितीयकल्पो निरस्तः ।
श्रुतिगतं यत्रपदं व्याचष्टे –
अन्यत्रेति ।
अथर्वणीयमन्त्रोपनिषदि द्वे विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या ऋग्वेदादिरूपा परा त्वदृश्यत्वादिगुणकप्रत्यस्तमितसर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययोर्विषयभेदः शास्त्रस्याऽऽदावेव सूचित इत्याह –
अत्र चेति ।
अद्वैतवादे सर्वशङ्कानां श्रुतिप्रामाण्येनैव निरासात्तार्किकोत्प्रेक्षितशङ्काशूकस्यापि नात्र प्रवेश इत्युपसंहरति –
अत इति ।
राजप्रमाणेति ।
प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाणमेव राजेव राजा तद्बाहवस्तदुक्तन्यायास्तैर्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्किकभटैर्योधैर्न प्रवेश्य इत्यन्वयः ।
पूर्ववाद्युक्तं दोषं निराकरोति –
एतेनेति ।
उपाधिकृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वादित्यर्थः ।
आत्मेति ।
आत्मनो योऽनर्थः संसारस्तत्कर्तृत्वमित्यर्थः । आदिशब्देनाऽऽप्तकामत्वेन प्रयोजनापेक्षानुपपत्तिः सङ्गृहीता । कल्पनया स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदीयकर्मफलदानार्थं चाऽऽप्तकामस्यापि सृष्ट्यादिप्रवृत्तिः सम्भवति । सर्वव्यवहारस्यापि स्वप्नतुल्यत्वाद्वा स्वप्न इव सर्वमप्युपपद्यत इति सूत्रभाष्यादावेव परिहृत इत्यर्थः ।
साङ्ख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिरुक्ता तामनूद्य निराकरोति –
यस्त्विति ।
यजमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्क्याऽऽह –
तत्र हि गौणीति ।
प्रधानपक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टृत्वमपि न सम्भवतीत्याह –
इह त्विति ।
मुक्तान्वर्जयित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया बन्धमोक्षादिशब्दितभोगापवर्गार्था व्यवस्थिता प्रवृत्तिर्नोपपद्यत इत्यर्थः । अनेन पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् ।
ईश्वरकारणवादे तु न कोऽपि दोष इत्याह –
यथोक्तेति ॥ ३ ॥