तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
नित्यान्यधिगतानि कर्माणि उपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन्ग्रन्थे । इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते । कर्महेतुः कामः स्यात् , प्रवर्तकत्वात् । आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात्प्रवृत्त्यनुपपत्तिः । आत्मकामत्वे चाप्तकामता । आत्मा च ब्रह्म । तद्विदो हि परप्राप्तिं वक्ष्यति । अतः अविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः, ‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५)इत्यादि श्रुतेः । काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च उपभोगेन क्षयात् नित्यानुष्ठानेन च प्रत्यवायाभावात् अयत्नत एव स्वात्मन्यवस्थानं मोक्षः । अथवा, निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्याया कर्महेतुत्वात्कर्मभ्य एव मोक्ष इति चेत् , न ; कर्मानेकत्वात् । अनेकानि हि आरब्धफलानि अनारब्धफलानि च अनेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि सम्भवन्ति । अतः तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगेन क्षयासम्भवात् शेषकर्मनिमित्तशरीरारम्भोपपत्तिः । कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) ‘ततः शेषेण’ (आ. ध. २ । २ । २ । ३)(गो. स्मृ. ११) इत्यादि श्रुतिस्मृतिशतेभ्यः । इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानि इति चेत् , न ; अकरणे प्रत्यवायश्रवणात् । प्रत्यवायशब्दो हि अनिष्टविषयः । नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्य आगामिनः परिहारार्थानि नित्यानीत्यभ्युपगमात् न अनारब्धफलकर्मक्षयार्थानि । यदि नाम अनारब्धफलकर्मक्षयार्थानि नित्यानि कर्माणि, तथाप्यशुद्धमेव क्षपयेयुः ; न शुद्धम् , विरोधाभावात् । न हि इष्टफलस्य कर्मणः शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते । शुद्धाशुद्धयोर्हि विरोधो युक्तः । न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसम्भवादशेषकर्मक्षयोपपत्तिः । अनात्मविदो हि कामः, अनात्मफलविषयत्वात् । स्वात्मनि च कामानुपपत्तिः, नित्यप्राप्तत्वात् । स्वयं चात्मा परं ब्रह्मेत्युक्तम् । नित्यानां च अकरणमभावः ततः प्रत्यवायानुपपत्तिरिति । अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति शतृप्रत्ययस्य नानुपपत्तिः - ‘अकुर्वन्विहितं कर्म’ (मनु. ११ । ४४) इति । अन्यथा हि अभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति । अतः अयत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम् । यच्चोक्तं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारभ्य एव मोक्ष इति, तन्न, नित्यत्वान्मोक्षस्य । न हि नित्यं किञ्चिदारभ्यते, लोके यदारब्धम् , तदनित्यमिति । अतो न कर्मारभ्यो मोक्षः । विद्यासहितानां कर्मणां नित्यारम्भसामर्थ्यमिति चेत् , न ; विरोधात् । नित्यं चारभ्यत इति विरुद्धम् । यद्धि नष्टम् , तदेव नोत्पद्यत इति प्रध्वंसाभाववन्नित्योऽपि मोक्ष आरभ्य एवेति चेत् , न ; मोक्षस्य भावरूपत्वात् । प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भवति अभावस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी ह्यभावः । यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इव घटभावः पटभाव इति, एवं निर्विशेषोऽप्यभावः क्रियागुणयोगाद्द्रव्यादिवद्विकल्प्यते । न ह्यभाव उत्पलादिवद्विशेषणसहभावी । विशेषणवत्त्वे भाव एव स्यात् । विद्याकर्मकर्तुर्नित्यत्वात् विद्याकर्मसन्तानजनितमोक्षनित्यत्वमिति चेत् , न ; गङ्गास्रोतोवत्कर्तृत्वस्य दुःखरूपत्वात् , कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म । तद्विज्ञानादविद्यानिवृत्तिरिति । अतः ब्रह्मविद्यार्थोपनिषदारभ्यते । उपनिषदिति विद्योच्यते, तत्सेविनां गर्भजन्मजरादिनिशातनात् , तदवसादनाद्वा ब्रह्मण उपनिगमयितृत्वात् ; उपनिषण्णं वा अस्यां परं श्रेय इति । तदर्थत्वाद्ग्रन्थोऽप्युपनिषत् ॥

कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव सम्भवात्पृथग्व्याख्यारम्भो न युक्त इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह –

नित्यानीति ।

“अथाऽतो धर्मजिज्ञासा”(जै.सू. १।१।१) इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि सञ्चितदुरितक्षयार्थानि । “धर्मेण पापमपनुदति”(म. ना. उ. २-१) इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रेयसार्थानि । “स्वर्गकामः”,“ पशुकामः” इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्माणां फलमित्यर्थः ।

कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह –

इदानीमिति ।

कर्मणामुपादानेऽनुष्ठाने यो हेतुस्तन्निवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थ आरभ्यते । अतः सनिदानकर्मोन्मूलनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः ।

कर्मानुष्ठाने हेतुर्नियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्क्याह –

कर्महेतुरिति ।

अस्येदं साधनमित्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकसम्भावनापीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः ।

कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह –

आप्तेति ।

अभिलषितविषयप्राप्तिः कामनिवृत्तौ हेतुः । न विद्या ।

अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्क्याह –

आत्मकामत्वे चेति ।

कामितविषयप्राप्त्या कामस्य तात्कालिकोपशममात्रं न तूच्छेदः । पुनर्विषयाकाङ्क्षादिदर्शनात् । आत्मकामनापि निरङ्कुशाऽऽत्मैव वस्तु नान्यत्ततोऽस्तीत्येवंरूपात्मकामत्वे सति भवति कामयितव्याभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः ।

भवत्वात्मविद्या कामविरोधिनी कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राह –

आत्मेति ।

आनन्दमयं परमात्मानमादय श्रुतिरुदाहृता ।

एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसम्भाव्यमाननिःश्रेयसप्रयोजनत्वाच्चोपनिषदो व्याख्यारम्भं सम्भाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति –

काम्यप्रतिषिद्धयोरिति ।

आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः ।

मतान्तरमाह –

अथवेति ।

यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं , निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासम्भवात्सति शरीरे क्लेशावश्यम्भावादित्यर्थः ।

ऐकभविकपक्षे आद्यं मतं प्रत्याख्याति –

नेत्यादिना ।

यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि सञ्चितस्यानेकस्य सम्भवाद्धेत्वभावोऽसिद्ध इत्यर्थः ।

प्रायणेनभिव्यक्तानि सर्वाण्येव कर्माणि सम्भूयैकं शरीरमारभन्ते , तत्र सर्वेषामुपभोगेन क्षयितत्वात्सञ्चितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम् –

विरुद्धफलानीति ।

स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासम्भवात् प्रायेणास्य सर्वाभिव्यञ्चकत्वे प्रमाणाभावात्बलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं सम्भवतीत्यर्थः ।

सम्भावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्क्याऽऽह –

कर्मशेषेति ।

प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः ।

सञ्चितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह –

इष्टेति ।

एतद्भाट्टानां सिद्धान्तविरुद्धमित्याह –

नेति ।

मुमुक्षुणाऽनुष्ठितस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह –

यदि नामेति ।

यच्चोक्तं मुमुक्षुः काम्यानि वर्जयेदिति तदप्यसति विवेकबले दुर्घटम् ।

सति मूलाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह –

न च कर्महेतूनामिति ।

ननु कामो नाज्ञानमूलः ।

आत्मविदामपि कामदर्शनादित्यत आह –

स्वात्मनि चेति ।

सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव । वास्तवाभिनिवेशाभावादित्यर्थः ।

तेषामप्यर्चिरादिमार्गेण ब्रह्मप्राप्तेः कामनाऽस्तीति नाऽऽशङ्कनीयमित्याह –

स्वयं चेति ।

यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राऽऽह –

नित्यानां चेति ।

आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । “पापः पापेन”(बृ. उ. ३ । २ । १३) इति श्रुतेः । निषिद्धाचरणनिमित्तत्वाद्दुःखस्येत्यर्थः ।

“अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥” इति शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतमित्याशङ्क्याऽऽह –

अतः पूर्वेति ।

यदि यथावन्नित्यनैनिमिकानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते ।

यथा विचिकित्सञ्श्रोत्रिय इति ।

ततः शतृप्रत्ययस्यान्यथा व्युत्पन्नत्वान्न तद्बलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।

ननु लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते , तत्राऽऽह –

अन्यथेति ।

भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं , शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः । ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्यव्यवस्थापकत्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम् - “भावो यथा तथाऽभावः कारणं कार्यवन्मतः” इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणं नेष्टम् । किन्तु तज्ज्ञानस्य प्रतवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते । नित्याकरणज्ञाने प्रत्यवायाभावप्रसङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रतिमिहेतुत्वं , सत्तया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वे अन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽसीत्तस्मादिदानीं जातमिति । न तु जनकत्वं प्रागभावस्य नियतप्राग्भावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः । प्राग्भावित्वमपि चान्यथासिद्धमित्युक्तं _ तत्त्वालोके ।

यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म किन्तु “कर्मणा पितृलोकः”(बृ. उ. १ । ५ । १६) “सर्व एते पुण्यलोका भवन्ति इति”(छा. उ. २ । २३ । १) श्रुतेः पितृलोकप्राप्तिफलम् , तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह –

आयत्नत इति ।

द्वितीयमतमनूद्य दूषयति –

यच्चोक्तमित्यादिना ।

विद्यासहितेनापि कर्मणाऽऽरभ्यश्चेन्मोक्षस्तर्ह्यनित्य एव ।

यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिभङ्गं मन्वानः शङ्कते –

यद्विनष्ठमिति ।

भावरूपत्वादिति । यद्भावरूपं कार्यं तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्यत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तकार्यं तदनित्यमिति व्याप्तिर्व्याख्यातैव ।

वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह –

प्रध्वंसेति ।

जन्याश्रयत्वं तावत्प्रध्वंसस्य न कार्यत्वम् । जनेर्नैरुक्तैर्भावविकारत्वाभ्युपगमात् । नापि प्रागसतः सत्तासमवायादिलक्षणम् । तदनभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन सम्भन्धाभावात् । अवच्छेदावच्छेदकभावस्य सम्बन्धान्तरमूलकत्वदर्शनात् , तदुत्तरकालस्य प्रध्वंसावच्छेदकत्वं स्वभावश्चेदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्विशेषकत्वात्कार्यत्वं कल्पनामात्रपरमिति भावः ।

किञ्च , अभावस्य भावनिषेधमात्रस्वभावत्वाद्भावविरोधित्वाच्च न भावरूपो धर्मः सम्भवतीत्याह –

भावेति ।

ननु अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः ।

प्रध्वंसादयस्तु नित्याः ततः कथं निर्विशेषत्वमित्याशङ्क्याऽऽह –

यथा हीति ।

विधिप्रत्ययस्यैकाकारत्वादेक एव भावोवच्छेदकभेदाद्भिन्न इव प्रकाशते जायते नश्यति चेति क्रियायोगात्संख्यागुणयोगाद्द्रव्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः ।

इतश्च न तत्त्वतः सविशेष इत्याह –

न हीति ।

विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावत्वव्याघाताद्भावाभावयोः सहानवस्थानरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः ।

एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य प्रकारान्तरेणाऽऽशङ्कां निषेधयति –

विद्याकर्मेत्यादिना ।

विद्याकर्मणोः कर्ता नित्य इति साधनसान्तत्यात्साध्यसान्तत्यं न वाच्यम् । कर्तृत्त्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च साधनसान्तत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मान्निःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः ।

ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह –

उपनिषदिति ।

निशातनात् शिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः ।