वृत्तानुवादपूर्वकमुत्तरानुवाकस्य सम्बन्धमाह –
संहिताविषयमित्यादिना ।
व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिरण्यगर्भाख्यं ब्रह्मान्तर्हृदये ध्येयत्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृतावङ्गिब्रह्मदृष्टिः कर्तव्या ।