यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्रमा पाहि प्र मा पद्यस्व ॥ ३ ॥
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते, ‘स मेन्द्रो मेधया स्पृणोतु’ ‘ततो मे श्रियमावह’ इति च लिङ्गदर्शनात् । यः छन्दसां वेदानाम् ऋषभ इव ऋषभः, प्राधान्यात् । विश्वरूपः सर्वरूपः, सर्ववाग्व्याप्तेः
‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णोङ्कार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् । अत एव ऋषभत्वमोङ्कारस्य । ओङ्कारो ह्यत्रोपास्य इति ऋषभादिशब्दैः स्तुतिर्न्याय्यैव ओङ्कारस्य । छन्दोभ्यः वेदेभ्यः, वेदा ह्यमृतम् , तस्मात् अमृतात् अधि सम्बभूव लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यतः ओङ्कारः सारिष्ठत्वेन प्रत्यभादित्यर्थः । न हि नित्यस्य ओङ्कारस्य अञ्जसैवोत्पत्तिरवकल्पते । सः एवंभूत ओङ्कारः इन्द्रः सर्वकामेशः परमेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु, बलयतु वा, प्रज्ञाबलं हि प्रार्थ्यते । अमृतस्य अमृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य, तदधिकारात् ; हे देव धारणः धारयिता भूयासं भवेयम् । किं च, शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् , भूयादिति प्रथमपुरुषविपरिणामः । जिह्वा मे मम मधुमत्तमा मधुमती, अतिशयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम् , श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसङ्घातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते - ब्रह्मणः परमात्मनः कोशः असि असेरिव ; उपलब्ध्यधिष्ठानत्वात् ; त्वं हि ब्रह्मणः प्रतीकम् , त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकप्रज्ञया पिहितः आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः । श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं मे गोपाय रक्ष ; तत्प्राप्त्यविस्मरणादिकं कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते मन्त्राः - आवहन्ती आनयन्ती ; वितन्वाना विस्तारयन्ती ; तनोतेस्तत्कर्मकत्वात् ; कुर्वाणा निर्वर्तयन्ती अचीरम् अचिरं क्षिप्रमेव ; छान्दसो दीर्घः ; चिरं वा ; कुर्वाणा, आत्मनः मम ; किमित्याह वासांसि वस्त्राणि, मम, गावश्च गाश्चेति यावत् ; अन्नपाने च सर्वदा ; एवमादीनि कुर्वाणा श्रीर्या, तां ततः मेधानिर्वर्तनात्परम् आवह आनय ; अमेधसो हि श्रीरनर्थायैवेति । किंविशिष्टाम् ? लोमशाम् अजाव्यादियुक्ताम् अन्यैश्च पशुभिः सह युक्ताम् आवहेति । अधिकारादोङ्कार एवाभिसम्बध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आमायन्त्विति । आयन्तु, मामिति व्यवहितेन सम्बन्धः, ब्रह्मचारिणः । विमायन्तु प्रमायन्तु दमायन्तु शमायन्तु इत्यादि । यशोजने यशस्विजनेषु असानि भवानि । श्रेयान् प्रशस्यतरः, वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा धनवज्जातीयपुरुषाद्विशेषवानहमसानीत्यर्थः । किं च, तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह, प्रविशानि । प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । सः त्वमपि मा मां भग भगवन् , प्रविश ; आवयोरेकात्मत्वमेवास्तु । तस्मिन् त्वयि सहस्रशाखे बहुशाखाभेदे हे भगवन् , निमृजे शोधयामि अहं पापकृत्याम् । यथा लोके आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति यथा च मासाः अहर्जरम् , संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति ; अहानि वा अस्मिन् जीर्यन्ति अन्तर्भवन्तीत्यहर्जरः ; तं च यथा मासाः यन्ति, एवं मां ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु आगच्छन्तु सर्वतः सर्वदिग्भ्यः । प्रतिवेशः श्रमापनयनस्थानम् आसन्नं गृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि । अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम् , प्र मा पद्यस्व प्रपद्यस्व च माम् । रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधीयमानो धनार्थः ; धनं च कर्मार्थम् ; कर्म च उपात्तदुरितक्षयार्थम् ; तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः -
‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि’ (म. भा. शां. २०४ । ८)(गरुड. १ । २३७ । ६) इति ॥