तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह –
यः कश्चिदित्यादिना ।
फलकामिनानुष्ठीयमानं संहितोपासनं कामितफलाय भवति । फलानभिसन्धिना त्वनुष्ठीयमानं ब्रह्मविद्यार्थं भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमश्यक्यत्वान्मेधाकामस्य जपोऽपि ब्रह्मविद्यार्थो भवति । श्रीविहीनेन सत्त्वशुद्ध्यर्थं यागाद्यनुष्ठातुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीति महत्तात्पर्यं विद्यासन्निधिसमाम्नातानां सर्वत्र द्रष्ठव्यम् ॥३॥