तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः सं हिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासं हिता इत्याचक्षते । अथाधििलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥
अधुना संहितोपनिषदुच्यते । तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यत् यशः प्राप्यते, तत् नौ आवयोः शिष्यार्चार्ययोः सहैव अस्तु । तन्निमित्तं च यत् ब्रह्मवर्चसं तेजः, तच्च सहैवास्तु इति शिष्यवचनमाशीः । शिष्यस्य हि अकृतार्थत्वात्प्रार्थनोपपद्यते ; नाचार्यस्य, कृतार्थत्वात् । कृतार्थो ह्याचार्यो नाम भवति । अथ अनन्तरम् अध्ययनलक्षणविधानस्य पूर्ववृत्तस्य, अतः यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषयेऽवतारयितुमित्यतः, संहितायाः उपनिषदं संहिताविषयं दर्शनमित्येतत् ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः, पञ्चसु अधिकरणेषु आश्रयेषु, ज्ञानविषयेष्वित्यर्थः । कानि तानीत्याह - - अधिलोकं लोकेष्वधि यद्दर्शनम् , तदधिलोकम् , तथा अधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्ममिति । ताः एताः पञ्चविषया उपनिषदः लोकादिमहावस्तुविषयत्वात्संहिताविषयत्वाच्च महत्यश्च ताः संहिताश्च महासंहिताः इति आचक्षते कथयन्ति वेदविदः । अथ तासां यथोपन्यस्तानां मध्ये अधिलोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थः अथशब्दः सर्वत्र । पृथिवी पूर्वरूपम् , पूर्वो वर्णः पूर्वरूपम् , संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा द्यौः उत्तररूपम् । आकाशः अन्तरिक्षलोकः सन्धिः मध्यं पूर्वोत्तररूपयोः सन्धीयते अस्मिन्पूर्वोत्तररूपे इति ॥

संहिता वर्णानां सन्निकर्षस्तद्विषयमुपासनं प्रथमं कथ्यत इत्याह –

अधुनेति ।

सन्निधानाच्च स्वशाखासंहितैव ग्राह्या । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः ।

संहितोपनिषच्छेषमशीर्वादान्तरमाह –

तत्रेति ।

वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतः शब्देनोक्त इत्याह –

यतोऽन्यर्थमिति ।

पञ्चस्विति सप्तमी तृतीयार्थे विपरिणेया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पर्यायैः विशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शनं प्रतिमायामित्यर्थः ।

लोकेष्वधीति ।

लोकानाधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचार्यादिर्विवक्षितः । तथैव प्रजाशब्देन प्रजाप्रतिबद्धः प्रित्रादिर्विवक्षितः ।

अध्यात्ममिति ।

आत्मानं भोक्तारमधिकृत्य यद्वर्तते जिह्वादि तद्विवक्षितम् । सर्वत्र तत्तदभिमानीनि देवतैव ग्राह्या । अन्यस्योपास्यत्वासम्भवादिति ।

विधिशेषमर्थवादमाह –

ता एता इति ।

संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः ।

कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह –

अथ तासामित्यादिना ।

कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यम्भाविनि क्रमे विशेषनियमर्थोऽथशब्दः । “हृदयसाग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः” इतिवत् । उपप्रदर्श्यन्ते परामृश्यन्ते । अविकारविधिप्रदर्शनाय, यथा षड्यागाः समुच्चिताः । फलसाधनमधिकारांशेनाभेदात् ।