तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥
शिक्षा शिक्ष्यते अनयेति वर्णाद्युच्चारणलक्षणम् , शिक्ष्यन्ते अस्मिन् इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा । दैर्घ्यं छान्दसम् । तां शीक्षां व्याख्यास्यामः विस्पष्टम् आ समन्तात्प्रकथयिष्यामः । चक्षिङः ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम् । तत्र वर्णः अकारादिः । स्वर उदात्तादिः । मात्रा ह्रस्वाद्याः । बलं प्रयत्नविशेषः । साम वर्णानां मध्यमवृत्त्योच्चारणं समता । सन्तानः सन्ततिः, संहितेत्यर्थः । एवं शिक्षितव्योऽर्थः शिक्षा यस्मिन्नध्याये, सोऽयं शीक्षाध्यायः इति एवम् उक्तः उदितः । उक्त इत्युपसंहारार्थः ॥

लक्षणमिति ।

लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा । इचुयशानां ताल्वित्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्मव्युप्तत्तिरेव शिक्षाशब्दस्य ग्राह्या ।[रूपमिति] “चक्षिङः ख्याञ्” “वा लिटि ”(पा.सू. २।४।५५) इति सूत्रेण ख्याञादिष्टो यस्तस्येदं रूपं न “ख्या प्रकथेन ” इत्यस्य सोपसर्गस्य , प्रयोगानभिधानादित्यर्थः ॥

इति द्वितीयोऽनुवाकः ॥२॥