यत्नोपरम इति ।
स्वरोष्मव्यञ्जनप्रमादो मा भूदित्यर्थः । अन्यथा विवक्षितार्थसिद्धिरेव न स्यात् । तदुक्तम् - “मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥”(पा.शि. ५२) इति ।