एवमुपनिषदां व्याख्यारम्भं सम्भाव्य प्रतिपदव्याख्यामारभते –
शं मुखमित्यादिना ।
शं नो भवत्त्विति । सुखकृद्भवत्वित्यर्थः ।
अध्यात्मप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते तत्राऽऽह –
तामसु हीति ।
श्रवणं गुरुपादोपसर्पणपूर्वकं वेदान्तानां तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणं । उपयोगः शिष्येभ्यो निवेदनम् ।
अन्यद्ब्रह्मवायुश्चान्य इति नाऽऽशङ्कनीयमित्याह –
परोक्षेति ।
ब्रह्मणे इति परोक्षेण “स ब्रह्म त्यदित्याचक्षत ”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्षत्वादित्यर्थः ।
यद्यपि सूत्रात्मरूपेण वायुः परोक्षः तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्मशब्दवाच्यत्वेऽप्यपरोक्षत्वमित्याह –
किञ्चेति ।
बाह्यं चक्षुरादि रूपदर्शनाद्यनुमेयत्वाद्व्यवहितम् । प्राणस्त्वव्यवधानेन साक्षिवेद्यः सन्निहितश्च भोक्तुरिति चक्षुराद्यपेक्षया प्रत्यक्ष इत्यर्थः । बृहनाद्ब्रह्म । प्राणकृतेन ह्यशनादिना शरीरादेर्बृहणं प्रसिद्धमित्यर्थः ।
यथाराज्ञो दौवारिकं कश्चिद्राजदिदृक्षुराह – “त्वमेव राजा” इति तथा हार्दस्य ब्रह्मणो द्वारपं प्राणं हार्थं ब्रह्म दिदृक्षुर्मुमुक्षुराह –
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामिति ।
ब्रह्मवदनक्रिया प्राणदेवतास्तुत्यर्था ।
स्तुत्यन्तरमाह –
ऋतमित्यादिना ॥१॥