कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव सम्भवात्पृथग्व्याख्यारम्भो न युक्त इत्याशङ्कामपनेतुं कर्मकाण्डार्थमाह –
नित्यानीति ।
“अथाऽतो धर्मजिज्ञासा”(जै.सू. १।१।१) इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविचारस्य पर्युदस्तत्वान्नोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि सञ्चितदुरितक्षयार्थानि । “धर्मेण पापमपनुदति”(म. ना. उ. २-१) इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रेयसार्थानि । “स्वर्गकामः”,“ पशुकामः” इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्माणां फलमित्यर्थः ।
कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह –
इदानीमिति ।
कर्मणामुपादानेऽनुष्ठाने यो हेतुस्तन्निवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थ आरभ्यते । अतः सनिदानकर्मोन्मूलनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः ।
कर्मानुष्ठाने हेतुर्नियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्क्याह –
कर्महेतुरिति ।
अस्येदं साधनमित्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकसम्भावनापीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः ।
कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह –
आप्तेति ।
अभिलषितविषयप्राप्तिः कामनिवृत्तौ हेतुः । न विद्या ।
अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्क्याह –
आत्मकामत्वे चेति ।
कामितविषयप्राप्त्या कामस्य तात्कालिकोपशममात्रं न तूच्छेदः । पुनर्विषयाकाङ्क्षादिदर्शनात् । आत्मकामनापि निरङ्कुशाऽऽत्मैव वस्तु नान्यत्ततोऽस्तीत्येवंरूपात्मकामत्वे सति भवति कामयितव्याभावादेव । आत्मानं ह्यद्वयानन्दरूपमजानन्नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः ।
भवत्वात्मविद्या कामविरोधिनी कर्महेतुपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राह –
आत्मेति ।
आनन्दमयं परमात्मानमादय श्रुतिरुदाहृता ।
एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसम्भाव्यमाननिःश्रेयसप्रयोजनत्वाच्चोपनिषदो व्याख्यारम्भं सम्भाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावयति –
काम्यप्रतिषिद्धयोरिति ।
आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वभावादेव सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः ।
मतान्तरमाह –
अथवेति ।
यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं , निरतिशयप्रीतेः स्वर्गपदार्थस्य मोक्षादन्यत्रासम्भवात्सति शरीरे क्लेशावश्यम्भावादित्यर्थः ।
ऐकभविकपक्षे आद्यं मतं प्रत्याख्याति –
नेत्यादिना ।
यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि सञ्चितस्यानेकस्य सम्भवाद्धेत्वभावोऽसिद्ध इत्यर्थः ।
प्रायणेनभिव्यक्तानि सर्वाण्येव कर्माणि सम्भूयैकं शरीरमारभन्ते , तत्र सर्वेषामुपभोगेन क्षयितत्वात्सञ्चितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम् –
विरुद्धफलानीति ।
स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासम्भवात् प्रायेणास्य सर्वाभिव्यञ्चकत्वे प्रमाणाभावात्बलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं सम्भवतीत्यर्थः ।
सम्भावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्क्याऽऽह –
कर्मशेषेति ।
प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः ।
सञ्चितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह –
इष्टेति ।
एतद्भाट्टानां सिद्धान्तविरुद्धमित्याह –
नेति ।
मुमुक्षुणाऽनुष्ठितस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह –
यदि नामेति ।
यच्चोक्तं मुमुक्षुः काम्यानि वर्जयेदिति तदप्यसति विवेकबले दुर्घटम् ।
सति मूलाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह –
न च कर्महेतूनामिति ।
ननु कामो नाज्ञानमूलः ।
आत्मविदामपि कामदर्शनादित्यत आह –
स्वात्मनि चेति ।
सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव । वास्तवाभिनिवेशाभावादित्यर्थः ।
तेषामप्यर्चिरादिमार्गेण ब्रह्मप्राप्तेः कामनाऽस्तीति नाऽऽशङ्कनीयमित्याह –
स्वयं चेति ।
यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राऽऽह –
नित्यानां चेति ।
आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम् । “पापः पापेन”(बृ. उ. ३ । २ । १३) इति श्रुतेः । निषिद्धाचरणनिमित्तत्वाद्दुःखस्येत्यर्थः ।
“अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति॥” इति शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतमित्याशङ्क्याऽऽह –
अतः पूर्वेति ।
यदि यथावन्नित्यनैनिमिकानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् । न चायं विहितकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते ।
यथा विचिकित्सञ्श्रोत्रिय इति ।
ततः शतृप्रत्ययस्यान्यथा व्युत्पन्नत्वान्न तद्बलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।
ननु लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते , तत्राऽऽह –
अन्यथेति ।
भावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं , शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः । ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्यव्यवस्थापकत्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम् - “भावो यथा तथाऽभावः कारणं कार्यवन्मतः” इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणं नेष्टम् । किन्तु तज्ज्ञानस्य प्रतवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते । नित्याकरणज्ञाने प्रत्यवायाभावप्रसङ्गात् । भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रतिमिहेतुत्वं , सत्तया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वे अन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम् । प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽसीत्तस्मादिदानीं जातमिति । न तु जनकत्वं प्रागभावस्य नियतप्राग्भावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः । प्राग्भावित्वमपि चान्यथासिद्धमित्युक्तं _ तत्त्वालोके ।
यस्मादकरणनिमित्तप्रत्यवायपरिहारार्थं न नित्यं कर्म किन्तु “कर्मणा पितृलोकः”(बृ. उ. १ । ५ । १६) “सर्व एते पुण्यलोका भवन्ति इति”(छा. उ. २ । २३ । १) श्रुतेः पितृलोकप्राप्तिफलम् , तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह –
आयत्नत इति ।
द्वितीयमतमनूद्य दूषयति –
यच्चोक्तमित्यादिना ।
विद्यासहितेनापि कर्मणाऽऽरभ्यश्चेन्मोक्षस्तर्ह्यनित्य एव ।
यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिभङ्गं मन्वानः शङ्कते –
यद्विनष्ठमिति ।
भावरूपत्वादिति । यद्भावरूपं कार्यं तदनित्यमिति व्याप्तेस्तव च मोक्षस्य निरतिशयप्रीतेर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसाभावस्य कार्यत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तकार्यं तदनित्यमिति व्याप्तिर्व्याख्यातैव ।
वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह –
प्रध्वंसेति ।
जन्याश्रयत्वं तावत्प्रध्वंसस्य न कार्यत्वम् । जनेर्नैरुक्तैर्भावविकारत्वाभ्युपगमात् । नापि प्रागसतः सत्तासमवायादिलक्षणम् । तदनभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन सम्भन्धाभावात् । अवच्छेदावच्छेदकभावस्य सम्बन्धान्तरमूलकत्वदर्शनात् , तदुत्तरकालस्य प्रध्वंसावच्छेदकत्वं स्वभावश्चेदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादभावस्य निर्विशेषकत्वात्कार्यत्वं कल्पनामात्रपरमिति भावः ।
किञ्च , अभावस्य भावनिषेधमात्रस्वभावत्वाद्भावविरोधित्वाच्च न भावरूपो धर्मः सम्भवतीत्याह –
भावेति ।
ननु अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः ।
प्रध्वंसादयस्तु नित्याः ततः कथं निर्विशेषत्वमित्याशङ्क्याऽऽह –
यथा हीति ।
विधिप्रत्ययस्यैकाकारत्वादेक एव भावोवच्छेदकभेदाद्भिन्न इव प्रकाशते जायते नश्यति चेति क्रियायोगात्संख्यागुणयोगाद्द्रव्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः ।
इतश्च न तत्त्वतः सविशेष इत्याह –
न हीति ।
विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहभावित्वे च तदभावत्वव्याघाताद्भावाभावयोः सहानवस्थानरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः ।
एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य प्रकारान्तरेणाऽऽशङ्कां निषेधयति –
विद्याकर्मेत्यादिना ।
विद्याकर्मणोः कर्ता नित्य इति साधनसान्तत्यात्साध्यसान्तत्यं न वाच्यम् । कर्तृत्त्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च साधनसान्तत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मान्निःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः ।
ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह –
उपनिषदिति ।
निशातनात् शिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः ।