ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ॐ शोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १ ॥
परापरब्रह्मदृष्ट्या हि उपास्यमान ओङ्कारः शब्दमात्रोऽपि परापरब्रह्मप्राप्तिसाधनं भवति ; स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णोः,
‘एतेनैवायतनेनैकतरमन्वेति’ (प्र. उ. ५ । २) इति श्रुतेः । ओमिति, इतिशब्दः स्वरूपपरिच्छेदार्थः ; ॐ इत्येतच्छब्दरूपं ब्रह्म इति मनसा धारयेत् उपासीत ; यतः ॐ इति इदं सर्वं हि शब्दस्वरूपमोङ्कारेण व्याप्तम् ,
‘तद्यथा शङ्कुना’ (छा. उ. २ । २३ । ३) इति श्रुत्यन्तरात् । ‘अभिधानतन्त्रं ह्यभिधेयम्’ इत्यतः इदं सर्वमोङ्कार इत्युच्यते । ओङ्कारस्तुत्यर्थ उत्तरो ग्रन्थः, उपास्यत्वात्तस्य । ॐ इत्येतत् अनुकृतिः अनुकरणम् । करोमि यास्यामि चेति कृतमुक्त ओमित्यनुकरोत्यन्यः, अतः ओङ्कारोऽनुकृतिः । ह स्म वै इति प्रसिद्धार्थद्योतकाः । प्रसिद्धं ह्योङ्कारस्यानुकृतित्वम् । अपि च ओश्रावय इति प्रैषपूर्वमाश्रावयन्ति प्रतिश्रावयन्ति । तथा ॐ इति सामानि गायन्ति सामगाः । ॐ शोमिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि । तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति । ॐ इति ब्रह्मा प्रसौति अनुजानाति । ॐ इति अग्निहोत्रम् अनुजानाति जुहोमीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति । ॐ इत्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्याह ओमित्येव प्रतिपद्यते अध्येतुमित्यर्थः ; ब्रह्म वेदम् उपाप्नवानि इति प्राप्नुयां ग्रहीष्यामीति उपाप्नोत्येव ब्रह्म । अथवा, ब्रह्म परमात्मानम् उपाप्नवानीत्यात्मानं प्रवक्ष्यन् प्रापयिष्यन् ओमित्येवाह । स च तेनोङ्कारेण ब्रह्म प्राप्नोत्येव । ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात् , तस्मादोङ्कारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥