ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः, अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते ।
‘तपसा कल्मषं हन्ति विद्ययामृतमश्नुते’ (मनु. १२ । १०४) इति हि स्मृतिः । वक्ष्यति च -
‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः । प्रागुपन्यासाच्च कर्मणाम् , केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि । उदितायां च ब्रह्मविद्यायाम्
‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘किमहं साधु नाकरवम्’ (तै. उ. २ । ९ । १) इत्यादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति । अतः अवगम्यते - पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाच्च -
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ऋतादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहारार्थः ; इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थः । वेदम् अनूच्य अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यते अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति । ‘बुद्ध्वा कर्माणि कुर्वीत’ इति स्मृतेश्च । कथमनुशास्तीत्यत आह - सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद । तद्वत् धर्मं चर ; धर्म इत्यनुष्ठेयानां सामान्यवचनम् , सत्यादिविशेषनिर्देशात् । स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम् आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः ; प्रजासन्ततेर्विच्छित्तिर्न कर्तव्या ; अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः, प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात् ; अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत् । सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः ; सत्याच्च प्रमदनमनृतप्रसङ्गः ; प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः ; अन्यथा असत्यवदनप्रतिषेध एव स्यात् । धर्मात् न प्रमदितव्यम् , धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः, स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलात् आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् , ते हि नियमेन कर्तव्ये इत्यर्थः । तथा देवपितृकार्याभ्यां न प्रमदितव्यम् , दैवपित्र्ये कर्मणी कर्तव्ये । मातृदेवः माता देवो यस्य सः, त्वं मातृदेवः भव स्याः । एवं पितृदेवो भव ; आचार्यदेवो भव ; अतिथिदेवो भव ; देवतावदुपास्या एते इत्यर्थः । यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया । नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि । यानि अस्माकम् आचार्याणां सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि ; नियमेन कर्तव्यानीत्येतत् । नो इतराणि विपरीतान्याचार्यकृतान्यपि । ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्ततराः, ते च ब्राह्मणाः, न क्षत्रियादयः, तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम् , प्रश्वसनं प्रश्वासः श्रमापनयः ; तेषां श्रमस्त्वया अपनेतव्य इत्यर्थः । तेषां वा आसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः ; केवलं तदुक्तसारग्राहिणा भवितव्यम् । किं च, यत्किञ्चिद्देयम् , तत् श्रद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया भीत्या च देयम् । संविदा च मैत्र्य्यादिकार्येण देयम् । अथ एवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत् , ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ युक्ता इति व्यवहितेन सम्बन्धः कर्तव्यः ; संमर्शिनः विचारक्षमाः, युक्ताः अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः, अलूक्षाः अरूक्षाः अक्रूरमतयः, धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत् ; स्युः भवेयुः, ते ब्राह्मणाः यथा येन प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन् , तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ताः दोषेण सन्दिह्यमानेन संयोजिताः केनचित् , तेषु च ; यथोक्तं सर्वमुपनयेत् - ये तत्रेत्यादि । एषः आदेशः विधिः । एषः उपदेशः पुत्रादिभ्यः पित्रादीनामपि । एषा वेदोपनिषत् वेदरहस्यम् , वेदार्थ इत्येतत् । एतदेव अनुशासनम् ईश्वरवचनम् , आदेशवाच्यस्य विधेरुक्तत्वात् । सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवम् , तस्मात् एवं यथोक्तं सर्वम् उपासितव्यं कर्तव्यम् । एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं पुनर्वचनम् ॥