ननु यथा पूर्वमाप्नोति स्वराज्यमित्यपरविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमपि “सोऽश्नुते सर्वान्कामान्”(तै. उ. २ । १ । १) इति सर्वविषयसाध्यानन्दान् संसारगोचरानेव दर्शयिष्यति कथमात्यन्तिकः संसाराभाव इत्यत आह –
प्रयोजनं चास्या इति ।
सर्वकामशब्देन निरतिशयानन्दभिव्यक्तिर्विवक्षिता । सा च स्वभावानन्दानभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः ।
आद्यवाक्यस्यावान्तरतात्पर्यमाह –
स्वयमेव चेति ।
विद्ययैव केवलया मोक्षः साधयितुं शक्यते ब्रह्मविदितिविशेषणात् ।
सम्बन्धज्ञानस्य पुरुषाकाङ्क्षाविषयतया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्याशङ्क्य यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव मुमुक्षुणा प्रवर्तितव्यामित्यत्रेत्याह –
निर्ज्ञातयोर्हीति ।
परशब्देनोत्कृष्टमुच्यते कथं ब्रह्मेति व्याख्यायते तत्राऽऽह –
न हीति ।