व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यव्याकृतविषयत्वं व्याख्यायते ? तत्राह –
तद्धीति ।
भूताकाशस्य कार्यत्वेनापरत्वादव्याकृताकाशस्य कारणत्वेन परमत्वविशेषणसम्भवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमादव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः ।
एवं पराभिप्रायेण व्याख्यात स्वाभिप्रायं व्याचष्टे –
हार्दमेव त्विति ।
हृदयावच्छिन्ने भूतकाशे या गृहा तस्यां बुद्धौ साक्षितया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टृभेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा समष्टिरूपेऽव्याकृते मायातत्त्वेऽवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत , पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टृचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह । यो वा इति ।
ननु निहितशब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह –
न हीति ।
अन्यथेति । उपलम्भव्यतिरेकेण । अविद्यावस्थायां ये सुखविशेषा हिरण्यगर्भाद्युपाधिषु भोग्यत्वेनाभिमतास्तेषां सर्वेषां ब्रह्मानन्दाव्यतिरेकाद्ब्रह्मीभूतो विद्वान्सर्वानेवाऽऽनन्दानश्नुत इत्युपचारेण बहुवचनमित्यर्थः ।