वृत्तमनुवदत्युत्तरग्रन्थावतारणाय –
सर्व एवेत्यादिना ।
आकाशादिकारणत्वाभिधानेनाऽऽनन्त्यप्रपञ्चः क्रियत इति समनन्तरग्रन्थतात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति –
तत्र चेति ।
वस्तुत आनन्त्यं व्याख्यातुं वस्तुनोऽन्तवत्त्वं तावदाह –
भिन्नं हीत्यादिना ।
विस्तरेणोक्तमानन्त्यं संक्षिप्याऽऽह –
तस्मात्सिद्धमिति ।
देशतोऽनवच्छिन्नस्याऽऽकाशस्य कारणत्वाद्व्यापकत्वान्निरतिशयमात्मनो देशत आनन्त्यमकार्यत्वाच्च कालत आनन्त्यं तद्यतो व्यावर्तेत तस्य पृथगसत्त्वात्कार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तुतोऽप्यानन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्त्यादेव सत्यत्वमपि सिद्धमन्तवत एव रज्जुसर्पादिवदसत्यत्वादित्यर्थः ।