तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम् , यच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तरमेव लक्षितम् , तस्मादेतस्माद्ब्रह्मण आत्मनः आत्मशब्दवाच्यात् ; आत्मा हि तत् सर्वस्य, ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् ; अतो ब्रह्म आत्मा ; तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपात् आकाशः सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, सम्भूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः सम्भूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी सम्भूता । पृथिव्याः ओषधयः । ओषधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरः - पाण्याद्याकृतिमान् । स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजःसम्भूतं रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, ‘पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामतमीक्षतीत्येवं सम्पन्नः ; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्’ इत्यादि श्रुत्यन्तरदर्शनात् ॥

एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभजते –

तस्मादित्यादिना ।

अन्त्यकार्यपर्यन्तं परमात्मनः सर्वत्रोपादानत्वादाकाशभावापन्नात्परमात्मन एव वायुः सम्भूतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिर्गुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रत्वाभिप्रायेण न वैशैषिकपक्षवत्तत्त्वभेदाभिप्रायेण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् ।

पुरुषग्रहणस्य तात्पर्यमाह –

सर्वेषामपीति ।

शक्तत्वादिति विधिनिषेधविवेकसामर्थ्योपेतत्वादित्युक्तम् ।

तत्रैतरेयकश्रुतिसम्भतिमाह –

पुरुषे त्वेवेति ।

ब्राह्मण्यादिजातिमति मनुष्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञानातिशयदर्शनादित्यर्थः । मर्त्येन ज्ञानकर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः ।

येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह –

अथेतरेषामिति ।