तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे प्राणमये भवः शरीरः । कः ? य एष मनोमयः । तस्माद्वा एतस्मादिति पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयः मनोमयस्याभ्यन्तरो विज्ञानमयः । मनोमयो वेदात्मा उक्तः । वेदार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानम् , तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तितः आत्मा विज्ञानमयः प्रमाणविज्ञानपूर्वको हि यज्ञादिः तायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन । निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धा उपपद्यते । सा सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः । ऋतसत्ये यथाव्याख्याते एव । योगः युक्तिः समाधानम् आत्मैव आत्मा । आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति । तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमजम् , ‘महद्यक्षं प्रथमजं वेद’ (बृ. उ. ५ । ४ । १) इति श्रुत्यन्तरात् , पुच्छं प्रतिष्ठा कारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी । सर्वविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्ववत् । यथा अन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोकाः, एवं विज्ञानमयस्यापि ॥

वाङ्मनसयोर्वाङ्मनसगोचरत्वं नोपपद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्मनोविशिष्टान्मनोभयाद्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपासनफलभूतमाधिदैविकमानन्दं विद्वान्न बिभेति गर्भवासादिदुःखादित्यर्थः । तथाऽध्यवसायलक्षणं लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां चतुर्थोऽनुवाकः॥