तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमित्याशङ्क्याऽऽह –
मनसो हीति ।
यद्यपि यजुःशब्दो बाह्ये शब्दराशौ रूढस्तथाऽपि श्रुतेरनतिशङ्कनीयत्वात्तत्प्रामाण्याद्विशिष्टमनोवृत्तिर्यजुः सङ्केतविषयभूता यजुर्वेदमधीमह एतत्क्रमका वर्णा यजुर्वेदतयाऽध्येतव्या इत्येवं सङ्कल्परूपा ग्राह्येत्यर्थः ।
श्रुत्यनुग्राहिकां युक्तिमप्याह –
एवं चेति ।
अन्यथेति ।
शब्दानां घटादिद्बाह्यद्रव्यत्वे मनोविषयत्वासम्भवान्मनसो बाह्येऽर्थेऽस्वातन्त्र्यान्मनसो जपो न स्यादित्यर्थः ।
इतश्च मनोवृत्तित्वं मन्त्राणां वच्यमित्याह –
मन्त्रावृत्तिश्चेति ।
शब्दानां घटादिवद्बाह्यद्रव्यत्वे मन्त्राणां घटादिवदावृत्तिर्नोपपद्यते क्रियैव ह्यावर्त्यते ।
आवृत्तिसिद्ध्यनुपपत्त्या क्रियात्वं वाच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते –
अक्षरविषयेति ।
मन्त्रेभ्यः स्मृतेरन्यत्वादन्याऽऽवृत्तिर्गौणी प्रसज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतत्स्फुटयति –
त्रिः प्रथमामित्यादिना ।
सामिधेन्यः समिधो यदाऽध्वर्युणा हूयन्ते तदा “प्र वो वाजा अभिद्यवः”(शतपथब्राह्मणम् १।४।१।७) इत्येकादशर्चं सूक्तं होता शम्सति तासां चर्चां मध्ये प्रथमामृचं सूक्तस्यान्त्यां चर्चं होता त्रिरनुब्रूयादित्यावृत्तिः श्रूयत इत्यर्थः ।
मन्त्राणां मनोवृत्तित्वमुक्त्वा मनोवृत्तीनां सदा चिद्व्याप्तत्वेनैव सिद्धेश्चिदात्मतामाह –
तस्मादिति ।
मन्त्राणां मनोवृत्तित्वेत्तित्वेनाऽऽवृत्तिर्घटत इत्युक्तम् ।
परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्यह –
एवं चेति ।
चैतन्यरूपत्वे सति । अन्यथेति । स्वप्रकाचिदात्मत्वानङ्गीकारे रूपादिवद्विषयत्वादनित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापाताद्युक्त्याभासमेतत् ।
अस्त्वनित्यत्वमिति न वाच्यमित्याह –
नैतदुक्तमिति ।
“वाचा विरूपनित्यया”(तै.सं.२-६-१२) इति श्रुत्या नित्यत्वस्याऽऽवेदितत्वाद्वेदा नित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडते स्वप्रकाशेनाऽऽत्मनैकत्वं न सम्भवति जडाजडयोर्विरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं सूचितमित्यर्थः । साक्षितया मनसि भवो मानसीनोऽक्षरे परमे व्योपकल्पे ब्रह्मणि ऋचो विधिनिषेधरूपा निषेदुस्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः ।