तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धापूर्वकम् ; अतो विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि च तनुते । यस्माद्विज्ञानकर्तृकं सर्वम् , तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किञ्च, विज्ञानं ब्रह्म सर्वे देवाः इन्द्रादयः ज्येष्ठम् , प्रथमजत्वात् ; सर्ववृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानैश्वर्यवन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति ; न केवलं वेदैव, तस्मात् ब्रह्मणः चेत् न प्रमाद्यति ; बाह्येष्वनात्मस्वात्मा भावितः ; तस्मात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम् ; तन्निवृत्त्यर्थमुच्यते - तस्माच्चेन्न प्रमाद्यतीति । अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादिति, उच्यते - शरीरे पाप्मनो हित्वा ; शरीराभिमाननिमित्ता हि सर्वे पाप्मानः ; तेषां च विज्ञानमये ब्रह्मण्यात्माभिमानात् निमित्तापाये हानमुपपद्यते ; छत्रापाय इव च्छायायाः । तस्मात् शरीराभिमाननिमित्तान्सर्वान् पाप्मनः शरीरप्रभवान् शरीरे एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क्ते इत्यर्थः । तस्य पूर्वस्य मनोमयस्य आत्मा एष एव शरीरे मनोमये भवः शारीरः । कः ? य एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् । आनन्दमय इति कार्यात्मप्रतीतिः, अधिकारात् मयट्शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मात्कार्यात्मा आनन्दमयः प्रत्येतव्यः । सङ्क्रमणाच्च । ‘आनन्दमयमात्मानमुपसङ्क्रामति’ इति वक्ष्यति । कार्यात्मनां च सङ्क्रमणमन्नात्मनां दृष्टम् । सङ्क्रमणकर्मत्वेन च आनन्दमय आत्मा श्रूयते, यथा ‘अन्नमयमात्मानमुपसङ्क्रामति’ इति । न च आत्मन एवोपसङ्क्रमणम् , अधिकारविरोधात् । असम्भवाच्च । न ह्यात्मनैव आत्मन उपसङ्क्रमणं सम्भवति, स्वात्मनि भेदाभावात् ; आत्मभूतं च ब्रह्म सङ्क्रमितुः । शिरआदिकल्पनानुपपत्तेश्च । न हि यथोक्तलक्षणे आकाशादिकारणे अकार्यपतिते शिरआद्यवयवरूपकल्पना उपपद्यते । ‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिविशेषापोहश्रुतिभ्यश्च । मन्त्रोदाहरणानुपपत्तेश्च । न हि, प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमाने आनन्दमये आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात् ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्’ (तै. उ. २ । ६ । १) इति मन्त्रोदाहरणमुपपद्यते । ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मात्कार्यपतित एवानन्दमयः, न पर एवात्मा । आनन्द इति विद्याकर्मणोः फलम् , तद्विकार आनन्दमयः । स च विज्ञानमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः । ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात् ; आन्तरतमश्च आनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाच्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी ; तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्याभ्यन्तरत्वमुपपद्यते ; प्रियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानमयाश्रितः स्वप्ने उपलभ्यते । तस्य आनन्दमयस्यात्मनः इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः, प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवानाम् , तेष्वनुस्यूतत्वात् । आनन्द इति परं ब्रह्म ; तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधौ अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य क्षणिकत्वम् । तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यावत् , तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्दविशेष उत्कृष्यते विपुलीभवति । वक्ष्यति च - ‘रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति, एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षः आनन्दस्य वक्ष्यते । एवं च उत्कृष्यमाणस्य आनन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानानन्तलक्षणम् , यस्य च प्रतिपत्त्यर्थं पञ्च अन्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम् , येन च ते सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्य एकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थे एष श्लोको भवति ॥

प्रथमजत्वादिति ।

हिरण्यगर्भाभेदेनेत्यर्थः ।

आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तन्निषेधेन व्याचष्टे –

कार्यत्मप्रतीतिरित्यादिना ।

संक्रामतीत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातम् ।

प्राप्त्यभिप्रायं कस्मान्न व्याख्यायत इत्यत आह –

न चाऽऽत्मन एवेति ।

अन्नमयादीनामतिक्रमणीयतया प्रकृतत्वादेकस्य कर्तृत्वकर्मत्वासम्भवाच्च प्राप्तिः संक्रमणं न भवतीत्यर्थः ।

आनन्दमयस्य परमात्मत्वासम्भवे हेत्वन्तराण्याह –

शिरादीत्यादिना ।

आनन्दमयस्य परमात्मत्वविवक्षायां मन्त्रे तस्यैवासत्त्वाशङ्का वक्तव्या ।

तदसम्भवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपाद्यत इत्याह –

मन्त्रोदाहरणानुपपत्तेश्चेति ।

न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः । विशिष्टस्य विशेषणकार्यत्वात्सुख्यहमित्युपलभ्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् ।

कथं तस्य विज्ञानमयादान्तरत्वमित्यत आह –

स चेति ।

कर्त्रपेक्षया भोक्तृत्वस्योत्तरभावित्वं प्रसिद्धमेव श्रुत्योक्तमित्यर्थः ।

एतत्स्फुटयति –

ज्ञानकर्मणोर्हीति ।

शरीरादिभ्य आनन्दसाधनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किञ्च प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति ।

तत उद्देश्यत्वादस्याऽऽन्तर्यं सिद्धमित्याह –

विद्याकर्मणोरिति ।

प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न मुख्यात्मत्वमित्याह –

प्रियादिवासनेति ।

यदुक्तं ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्यत्वमौपाधिकं स्वमतानुसारेणाऽऽह –

आनन्द इति ।

परमिति ।

कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिशयत्वं च व्यञ्चकवृत्तिनिबन्धनमित्याह –

तद्वृत्तिविशेषेति ।

ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह –

वक्ष्यति चेति ।

अन्तःकरणशुद्ध्युत्कर्षादेवाऽऽनन्दस्य सातिशयत्वमित्यत्र लिङ्गमाह –

एवं चेति ।

यदि विषयविशेषजन्यत्वेनाऽऽनन्दोत्कर्षस्तदा निष्कामस्य विषयविशेषोपभोगासम्भवादानन्दोत्कर्षो न श्राव्येत । आत्मस्वभावस्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्ध्युत्कर्षादेवोत्कर्षं इत्येवं तु सत्यकामहतत्वोत्कर्षादुत्कर्षुः सम्भाव्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्टस्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम् । सतिशयत्वेन प्रतिशरीरं भिन्नत्वात् ।

ब्रह्म तु तदध्यासाधिष्ठानमद्वितीयमित्याह –

एवं चेति ।

एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां ब्रह्मवल्ल्यां पञ्चमोऽनुवाकः॥