तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
असन्नेव असत्सम एव, यथा असन् अपुरुषार्थसम्बन्धी, एवं सः भवति अपुरुषार्थसम्बन्धी । कोऽसौ ? यः असत् अविद्यमानं ब्रह्म इति वेद विजानाति चेत् यदि । तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितमपि, अस्ति तत् ब्रह्म इति वेद चेत् , कुतः पुनराशङ्का तन्नास्तित्वे ? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । व्यवहारविषये हि वाचारम्भणमात्रे अस्तित्वभावितबुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथा ‘घटादिर्व्यवहारविषयतयोपपन्नः सन् , तद्विपरीतः असन्’ इति प्रसिद्धम् , एवं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वं प्रत्याशङ्का । तस्मादुच्यते - अस्ति ब्रह्मेति चेद्वेदेति । किं पुनः स्यात्तदस्तीति विजानतः ? तदाह - सन्तं विद्यमानं ब्रह्मस्वरूपेण परमार्थसदात्मापन्नम् एनम् एवंविदं विदुः ब्रह्मविदः । ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्रह्मवद्विज्ञेयो भवतीत्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते, स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिपद्यते ; ब्रह्मप्रतिपत्त्यर्थत्वात्तस्य । अतः नास्तिकः सः असन् असाधुरुच्यते लोके । तद्विपरीतः सन् यः अस्ति ब्रह्मेति चेद्वेद, स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात् , ततः तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः । तस्मादस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्य पूर्वस्य विज्ञानमयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा । कोऽसौ ? य एष आनन्दमयः । तं प्रति नास्त्याशङ्का नास्तित्वे । अपोढसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता ; सर्वसाम्याच्च ब्रह्मणः । यस्मादेवम् , अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्तिमनु एते प्रश्नाः । सामान्यं हि ब्रह्म आकाशादिकारणत्वात् विदुषः अविदुषश्च ; अतः अविदुषोऽपि ब्रह्मप्राप्तिराशङ्क्यते - उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति ? ‘किं वा न गच्छति ? ’इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, अनुप्रश्ना इति बहुवचनात् । विद्वांसं प्रत्यन्यौ प्रश्नौ - यद्यविद्वान्सामान्यं कारणमपि ब्रह्म न गच्छति, अतो विदुषोऽपि ब्रह्मागमनमाशङ्क्यते ; अतस्तं प्रति प्रश्नः - आहो विद्वानिति । उकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मादुतशब्दाद्व्यासज्य आहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति - उताहो विद्वानिति । विद्वान् ब्रह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति । समश्नुते उ इत्येवं स्थिते, अयादेशे यलोपे च कृते, अकारस्य प्लुतिः - समश्नुता ३ उ इति । विद्वान्समश्नुते अमुं लोकम् ; किं वा, यथा अविद्वान् , एवं विद्वानपि न समश्नुते इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ ; बहुवचनं तु सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते । ‘असद् ब्रह्मेति वेद चेत्’ ‘अस्ति ब्रह्मेति चेद्वेद’ इति श्रवणादस्ति नास्तीति संशयः । ततः अर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणः अपक्षपातित्वात् अविद्वान्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽपि अविदुष इव विदुषोऽप्यगमनमाशङ्क्य किं विद्वान्समश्नुते न समश्नुते इति तृतीयोऽनुप्रश्नः ॥

आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह –

तं प्रतीति ।

सविशेषतया प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधरणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेन्न च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । आकशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः ।

कस्य सामर्थ्येन प्राप्तं प्रश्नान्तरमित्यत आह –

असद्ब्रह्मेतीति ।

चेच्छब्दात्पाक्षिकसत्त्वावगमसामर्थ्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति सतो बाधासम्भवादित्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः ।