तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते । तत्र अस्तित्वमेव तावदुच्यते । यच्चोक्तम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति, तत्र च कथं सत्यत्वमित्येतद्वक्तव्यमिति इदमुच्यते । सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि सदेव सत्यमिति ; तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते । कथमेवमर्थता अवगम्यते अस्य ग्रन्थस्य ? शब्दानुगमात् । अनेनैव ह्यर्थेनान्वितानि उत्तरवाक्यानि - ‘तत्सत्यमित्याचक्षते’ (तै. उ. २ । ६ । १) ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) इत्यादीनि । तत्र असदेव ब्रह्मेत्याशङ्क्यते । कस्मात् ? यदस्ति, तद्विशेषतो गृह्यते ; यथा घटादि । यन्नास्ति, तन्नोपलभ्यते ; यथा शशविषाणादि । तथा नोपलभ्यते ब्रह्म ; तस्माद्विशेषतः अग्रहणान्नास्तीति । तन्न, आकाशादिकारणत्वाद्ब्रह्मणः । न नास्ति ब्रह्म । कस्मात् ? आकाशादि हि सर्वं कार्यं ब्रह्मणो जातं गृह्यते ; यस्माच्च जायते किञ्चित् , तदस्तीति दृष्टं लोके, यथा घटाङ्कुरादिकारणं मृद्बीजादि ; तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । न चासतो जातं किञ्चिद्गृह्यते लोके कार्यम् । असतश्चेन्नामरूपादि कार्यम् , निरात्मकत्वान्नोपलभ्येत ; उपलभ्यते तु ; तस्मादस्ति ब्रह्म । असतश्चेत्कार्यं गृह्यमाणमपि असदन्वितमेव स्यात् ; न चैवम् ; तस्मादस्ति ब्रह्म । तत्र ‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति श्रुत्यन्तरमसतः सज्जन्मासम्भवमन्वाचष्टे न्यायतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्बीजादिवत् कारणं स्यात् , अचेतनं तर्हि । न ; कामयितृत्वात् । न हि कामयित्रचेतनमस्ति लोके । सर्वज्ञं हि ब्रह्मेत्यवोचाम ; अतः कामयितृत्वोपपत्तिः । कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत् , न ; स्वातन्त्र्यात् । यथा अन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि ? सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धाः । न तैर्ब्रह्म प्रवर्त्यते ; तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया । तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मणः ; अतो न अनाप्तकामं ब्रह्म । साधनान्तरानपेक्षत्वाच्च । यथा अन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च, न तथा ब्रह्मणः । किं तर्हि ? स्वात्मनोऽनन्याः । तदेतदाह - सोऽकामयत । सः आत्मा यस्मादाकाशः सम्भूतः, अकामयत कामितवान् । कथम् ? बहु प्रभूतं स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादिति, उच्यते - प्रजायेय उत्पद्येय । न हि पुत्रोत्पत्तेरिवार्थान्तरविषयं बहुभवनम् । कथं तर्हि ? आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या । यदा आत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा आत्मस्वरूपापरित्यागेनैव ब्रह्मणः अप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते । तदेतन्नामरूपव्याकरणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव । अतः तद्द्वारेणैवात्मा बहु भवति । न ह्यात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते । अतः नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती । न ब्रह्म तदात्मकम् । ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्येते । ताभ्यां च उपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्रह्म । सः आत्मा एवंकामः सन् तपः अतप्यत । तप इति ज्ञानमुच्यते, ‘यस्य ज्ञानमयं तपः’ (मु. उ. १ । १ । ८) इति श्रुत्यन्तरात् । आप्तकामत्वाच्च इतरस्य असम्भव एव तपसः । तत्तपः अतप्यत तप्तवान् , सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः । सः एवमालोच्य तपः तप्त्वा प्राणिकर्मादिनिमित्तानुरूपम् इदं सर्वं जगत् देशतः कालतः नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानम् असृजत सृष्टवान् । यदिदं किञ्च यत्किञ्चेदमविशिष्टम् , तत् इदं जगत् सृष्ट्वा, किमकरोदिति, उच्यते - तदेव सृष्टं जगत् अनुप्राविशदिति ॥

ब्रह्मणः सत्त्वसाधनं नामसत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति –

तत्रासदेवेति ।

विप्रतिपन्नमाकाशादि सत्पूर्वकं कार्यत्वादघटवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाद्यनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते । सा कारणत्वेन व्यावर्त्यतेऽनेन तु कारणत्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः ।

इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह –

न चासत इति ।

न्यायत इति । आसदन्वयादर्शनादिति युक्तित इत्यर्थः ।

अवमसत्त्वाशङ्कां निरस्याचेतनत्वाशङ्कां प्रधानवादिनः प्रसङ्गान्निराचष्टे –

तद्यदीति ।

यद्यपि साङ्ख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामयितृत्वादचेतनत्वशङ्का निवर्त्यत इत्याह –

न हीति ।

तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्त मित्याशङ्क्याऽऽह –

कामयितृत्वादित्यादिना ।

जीवानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः ।

कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह –

सत्यज्ञानलक्षणा इति ।

सत्यज्ञान–

नं

लक्षणं स्वरूपं येषां ते तथोक्ताः ।

एतदुक्तं मवति , मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारण मायापरिणामैरेव कामैः कामयितृ । तेषां च परिणामानामविद्याद्यनभिभूतचिद्व्याप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्मतादात्म्याच्चाधर्मद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जोवकामवैलक्षण्यं सिद्धमिति ।

तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याऽऽह –

तेषां त्विति ।

कामस्य शरीरादिसम्बन्धजन्यत्वप्रसिद्धेर्ब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह –

साधनान्तरानपेक्षत्वाच्चेति ।

कामसंस्कारवत्या मायया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः ।

तद्द्वारेणैवेति ।

नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव ।

नामरूपशक्त्यात्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्क्याऽऽह –

न हीति ।

आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा ? नाऽऽद्यः । जाड्यहानेरतिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयोगादि सम्भवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव सम्बन्धः । द्वयोः स्वभावयोः सम्बन्धत्वेनैवोपक्षये सम्बन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव सम्बन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यस्यतीति भावः ।

यस्मादात्मातिरिक्तं वस्तु न सम्भाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह –

अत इति ।

तर्हि ब्रह्मणः सप्रपञ्चताप्रसङ्ग इति न वाच्यमित्याह –

न ब्रह्मेति ।

न ब्रह्म तादात्म्यकमजडत्वात्तत्परिहारेणापि सिद्धिसम्भवादित्यर्थः ।

कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह –

ते तदिति ।

स्वप्नावबुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्ध्यसम्भवादनुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्येते न त्वैक्याभिप्रायेणेत्यर्थः ।

न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह –

ताभ्यामिति ।