ब्रह्मणः सत्त्वसाधनं नामसत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति –
तत्रासदेवेति ।
विप्रतिपन्नमाकाशादि सत्पूर्वकं कार्यत्वादघटवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाद्यनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते । सा कारणत्वेन व्यावर्त्यतेऽनेन तु कारणत्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः ।
इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह –
न चासत इति ।
न्यायत इति । आसदन्वयादर्शनादिति युक्तित इत्यर्थः ।
अवमसत्त्वाशङ्कां निरस्याचेतनत्वाशङ्कां प्रधानवादिनः प्रसङ्गान्निराचष्टे –
तद्यदीति ।
यद्यपि साङ्ख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामयितृत्वादचेतनत्वशङ्का निवर्त्यत इत्याह –
न हीति ।
तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्त मित्याशङ्क्याऽऽह –
कामयितृत्वादित्यादिना ।
जीवानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः ।
कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह –
सत्यज्ञानलक्षणा इति ।
सत्यज्ञान–
नं
लक्षणं स्वरूपं येषां ते तथोक्ताः ।
एतदुक्तं मवति , मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारण मायापरिणामैरेव कामैः कामयितृ । तेषां च परिणामानामविद्याद्यनभिभूतचिद्व्याप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्मतादात्म्याच्चाधर्मद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जोवकामवैलक्षण्यं सिद्धमिति ।
तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याऽऽह –
तेषां त्विति ।
कामस्य शरीरादिसम्बन्धजन्यत्वप्रसिद्धेर्ब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह –
साधनान्तरानपेक्षत्वाच्चेति ।
कामसंस्कारवत्या मायया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः ।
तद्द्वारेणैवेति ।
नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव ।
नामरूपशक्त्यात्मिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्क्याऽऽह –
न हीति ।
आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा ? नाऽऽद्यः । जाड्यहानेरतिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयोगादि सम्भवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव सम्बन्धः । द्वयोः स्वभावयोः सम्बन्धत्वेनैवोपक्षये सम्बन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव सम्बन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यस्यतीति भावः ।
यस्मादात्मातिरिक्तं वस्तु न सम्भाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह –
अत इति ।
तर्हि ब्रह्मणः सप्रपञ्चताप्रसङ्ग इति न वाच्यमित्याह –
न ब्रह्मेति ।
न ब्रह्म तादात्म्यकमजडत्वात्तत्परिहारेणापि सिद्धिसम्भवादित्यर्थः ।
कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह –
ते तदिति ।
स्वप्नावबुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्ध्यसम्भवादनुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्येते न त्वैक्याभिप्रायेणेत्यर्थः ।
न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह –
ताभ्यामिति ।