यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । एतं ह वाव न तपति । किमहं साधु ना करवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं स्पृणुते । उभे ह्येवैष एते आत्मानं स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ १ ॥
यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अद्वयानन्दात् आत्मनः, वाचः अभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पे अद्वयेऽपि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्य अप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धीयन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च, यत्राभिधानं प्रवृत्तमतीन्द्रियेऽप्यर्थे, तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानम् , तत्र वाचः प्रवृत्तिः । तस्मात् सहैव वाङ्मनसयोः अभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र । तस्मात् ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचः यस्मादप्रत्ययविषयादनभिधेयाददृश्यादिविशेषणात् सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्य अवृजिनस्य अकामहतस्य सर्वैषणाविनिर्मुक्तस्य आत्मभूतं विषयविषयिसम्बन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान् यथोक्तेन विधिना न बिभेति कुतश्चन, निमित्ताभावात् । न हि तस्माद्विदुषः अन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति । अविद्यया यदा उदरमन्तरं कुरुते, अथ तस्य भयं भवतीति हि युक्तम् । विदुषश्च अविद्याकार्यस्य तैमिरिकदृष्टद्वितीयचन्द्रवत् नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते । मनोमये च उदाहृतः मन्त्रः, मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमात्रं प्रतिषिद्धम् ; इह अद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमिति, उच्यते - एतं यथोक्तमेवंविदम् , ह वाव इत्यवधारणार्थौ, न तपति नोद्वेजयति न सन्तापयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीति, उच्यते - किं कस्मात् साधु शोभनं कर्म नाकरवं न कृतवानस्मि इति पश्चात्सन्तापो भवति आसन्ने मरणकाले ; तथा किं कस्मात् पापं प्रतिषिद्धं कर्म अकरवं कृतवानस्मि इति च नरकपतनादिदुःखभयात् तापो भवति । ते एते साध्वकरणपापक्रिये एवमेनं न तपतः, यथा अविद्वांसं तपतः । कस्मात्पुनर्विद्वांसं न तपत इति, उच्यते - स य एवंविद्वान् एते साध्वसाधुनी तापहेतू इति आत्मानं स्पृणुते प्रीणाति बलयति वा, परमात्मभावेन उभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मात् एवम् एष विद्वान् एते आत्मानात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वा आत्मानं स्पृणुत एव । कः ? य एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद, तस्य आत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्तरारम्भके न भवतः । इतीयम् एवं यथोक्ता अस्यां वल्ल्यां ब्रह्मविद्योपनिषत् , सर्वाभ्यः विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः - परं श्रेयः अस्यां निषण्णमिति ॥