तैत्तिरीयोपनिषद्भाष्यम्
आनन्दगिरिटीका (तैत्तिरीय)
 
भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
आख्यायिका विद्यास्तुतये, प्रियाय पुत्राय पित्रोक्तेति - भृगुर्वै वारुणिः । वै - शब्दः प्रसिद्धानुस्मारकः, भृगुरित्येवं नामा प्रसिद्धो अनुस्मार्यते, वारुणिः वरुणस्यापत्यं वारुणिः वरुणं पितरं ब्रह्म विजिज्ञासुः उपससार उपगतवान् - अधीहि भगवो ब्रह्म इत्यनेन मन्त्रेण । अधीहि अध्यापय कथय । स च पिता विधिवदुपसन्नाय तस्मै पुत्राय एतत् वचनं प्रोवाच - अन्नं प्राणं चक्षुः श्रोत्रम् मनो वाचम् इति । अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम् अनन्तरमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचम् इत्येतानि ब्रह्मोपलब्धौ द्वाराण्युक्तवान् । उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगुं होवाच ब्रह्मणो लक्षणम् । किं तत् ? यतः यस्मात् वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते, येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते, विनाशकाले च यत्प्रयन्ति यद्ब्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते, उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि, तदेतद्ब्रह्मणो लक्षणम् , तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व ; यदेवंलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरं च - ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यम्’ (बृ. उ. ४ । ४ । १८) इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति । स भृगुः ब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः, तपो ब्रह्मोपलब्धिसाधनत्वेन अतप्यत तप्तवान् । कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्तिर्भृगोः ? सावशेषोक्तेः । अन्नादिब्रह्मणः प्रतिपत्तौ द्वारं लक्षणं च यतो वा इमानि इत्याद्युक्तवान् । सावशेषं हि तत् , साक्षाद्ब्रह्मणोऽनिर्देशात् । अन्यथा हि स्वरूपेणैव ब्रह्म निर्देष्टव्यं जिज्ञासवे पुत्राय इदमित्थंरूपं ब्रह्म इति ; न चैवं निरदिशत् ; किं तर्हि, सावशेषमेवोक्तवान् । अतोऽवगम्यते नूनं साधनान्तरमप्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति । तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात् ; सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप एव साधकतमं साधनमिति हि प्रसिद्धं लोके । तस्मात् पित्रा अनुपदिष्टमपि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः । तच्च तपो बाह्यान्तःकरणसमाधानम् , तद्द्वारकत्वाद्ब्रह्मप्रतिपत्तेः, ‘मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते’ इति स्मृतेः । स च तपस्तप्त्वा ॥

वृत्तानुवादपूर्वंकमुत्तरवल्लीसम्बन्धमाह –

सत्यं ज्ञानमित्यादिना ।

तप इति ।

पदार्थविवरणं वाक्यार्थज्ञानसाधनमित्यर्थः ।

अधीहीति ।

अध्यापय स्मारय । “इक् स्मरणे” इति धातुपाठादित्यर्थः ।

ब्रह्मोपलब्धाविति ।

लक्ष्यत्वमर्थविवेकाय द्वाराणि शरीरादिचेष्टान्यथानुपपत्त्या हि साक्षिभूतश्चिद्धातुर्विविच्यत इति भावः । न केवलं त्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं किन्तु तत्पदार्थज्ञानमपीत्यभिप्रेत्य तदर्थस्य ब्रह्मणो लक्षणमुक्तवानित्यर्थः ।

सावशेषोक्तेरिति ।

पदार्थोपलक्षणस्यैवाभिधानादखण्डवाक्यार्थस्याप्रतिपादनात्पदार्थभेदज्ञानाच्च पुरुषार्थासम्भवात् “उदरमन्तरं कुरुत”(तै. उ. २ । ७ । १) इति निन्दितत्वादतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणं आवृत्त्याऽनुष्ठितवानित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छाङ्करभाष्यटीकायां तृतीयभृगुवल्ल्यां प्रथमोऽनुवाकः॥