तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥

गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति —

यैरिति ।

इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमाणानि च पदवाक्यप्रमाणानि । ‘सोऽकामयत’ इत्यादौ ब्रह्मसत्त्वसाधकतया विवक्षितान्यनुमानानि प्रमाणानि । तेषां पदवाक्यप्रामाणानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्साधुत्वविचाररूपत्वात् , वाक्यं मीमांसा वेदवाक्यविचाररूपत्वात् , प्रमाणं न्यायशास्त्रं प्राधान्येन प्रत्यक्षादिप्रमाणविचारात्मकत्वात् ; ततश्च पदवाक्यप्रमाणैः साधनभूतैर्व्याख्याता इत्यर्थः ॥ २ ॥