उपनिषदः कर्मकाण्डेन नियतपौर्वापर्यसूचितं सम्बन्धं विशिष्य ख्यापयितुं कर्मकाण्डार्थे कीर्तयति —
नित्यानीति ।
पूर्वस्मिन्ग्रन्थे नित्यानि कर्माणि सञ्चितदुरितक्षयार्थत्वेनाधिगतानि ; तैश्च नित्यैरिह जन्मनि जन्मान्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धान्तःकरणस्य कर्मानुष्ठानप्रयोजकाविद्याकामपरिहारद्वारा मुक्तिसिद्धये इदानीम् उपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्तशुद्धिद्वारा साधनत्वात्तत्प्रतिपादकयोरपि कर्मकाण्डोपनिषदोः साध्यसाधनभावः सम्बन्ध इत्यर्थः ।
ननु कर्मकाण्डस्य चेत्पापक्षयद्वारा विद्यायां विनियोगः, तर्हि पशुस्वर्गादिसाधनभूतानां काम्यकर्मणां तत्रोक्तिरसङ्गता तेषां विद्यासाधनत्वायोगादित्याशङ्क्याह —
काम्यानि चेति ।
अयं भावः - काम्यानां फलार्थत्वेऽपि फलाभिसन्धिं विना कृतानां तेषां विद्यासाधनत्वमप्यस्त्येव, विविदिषावाक्येन नित्यकाम्यसाधारण्येन कर्मणां विध्यायां विनियुक्तत्वात् ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतिष्वपि तथोक्तत्वाच्च ; कर्मकाण्डे फलार्थिनां काम्यकर्मविधानमपि विद्योपयोग्येवेति ।
कर्मोपादानहेतुपरिहारायेत्यत्र निर्दिष्टः कर्मप्रवृत्तिहेतुः क इति जिज्ञासायामाह —
कर्महेतुरिति ।
अत्र यद्यप्यविद्यापि कर्मोपादानहेतुः, तथा च वक्ष्यति - ‘तस्मादविद्यादिकर्मोपादानहेतुनिवृत्तौ’ इति, तथाप्यविद्यायाः कामद्वारा कर्महेतुत्वात्कामो हेतुरित्युक्तम् । कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासेनाप्युक्तम् - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति ।
कामस्य कर्महेतुत्वेऽन्वयव्यतिरेकौ प्रमाणयति —
प्रवर्तकत्वादिति ।
कामे सति प्राणिनां प्रवृत्तिदर्शनादित्यर्थः ।
आप्तकामानां हीति ।
अनुपपत्तिपदमभावपरम् । ततश्च आप्तकामानां प्राप्तस्वरूपानन्दानां स्वात्मनि स्वरूपानन्देऽवस्थानाद्धेतोः कामाभावे प्रवृत्त्यभावदर्शनाद् इत्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।
नन्वाप्तकामत्वे को हेतुः ? तत्राह —
आत्मकामत्वे चेति ।
आत्मैव काम आनन्दो यस्य साक्षात्कृतः स आत्मकामः, तस्य भाव आत्मकामत्वम् , तस्मिन्सत्याप्तकामता भवतीत्यर्थः ।
ननु ब्रह्मविद्यैवाप्तकामताहेतुः नात्मानन्दसाक्षात्कारवत्त्वम् ; तत्राह —
आत्मा च ब्रह्मेति ।
‘अयमात्मा ब्रह्म’ इति श्रुतेरिति भावः ।
ब्रह्मविद आत्मानन्दप्राप्तौ मानमाह —
तद्विदो हीति ।
हि यस्मात्परस्य स्वरूपानन्दस्य प्राप्तिं ब्रह्मविदः ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतिर्वक्ष्यति, तस्माद्ब्रह्मविदाप्तकाम इत्यर्थः ।
नन्वात्मानन्दस्य नित्यप्राप्तत्वाद्विद्यया तत्प्राप्तिश्रुतिरनुपपन्ना ; नेत्याह —
अत इति ।
आत्मस्वरूपत्वेऽप्यविद्यावृतत्वाद्विद्यया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र परप्राप्तिर्विवक्षिता ; अतो न विद्यावैयर्थ्यशङ्केति भावः ।
ब्रह्मविदः परप्राप्तावेवान्यदपि वाक्यद्वयं पठति —
अभयमिति ।
ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्मभावेनावस्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं परमात्मानमुपसङ्क्रामति प्राप्नोतीत्यर्थः । इदं च वृत्तिकारमताभिप्रायेणोदाहृतम् , स्वमते आनन्दमयस्य जीवत्वादिति बोध्यम् ॥
ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतेः ; आत्यन्तिकेन शरीरसम्बन्धाभावेन युक्ते स्वस्वरूपेऽवस्थानं मोक्षः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरीरसम्बन्धाभावो ब्रह्मात्मैकत्वविद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते —
काम्येति ।
काम्यं कर्म देवादिशरीरहेतुः, प्रतिषिद्धं कर्म तिर्यगादिशरीरहेतुः, नित्यनैमित्तिकाननुष्ठानं प्रत्यवायोत्पादनद्वारा नारक्यादिजन्महेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्यप्रतिषिद्धयोरनारम्भात्सम्यङ्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुत्पादाच्च न भाविजन्मप्राप्तिः, आरब्धफलयोश्च पुण्यपापयोरुपभोगेनैव नाशान्न ततोऽपि भाविजन्मप्राप्तिशङ्का ; तथा च विद्यासम्पादनयत्नं विना मुमुक्षोरेवं वर्तमानस्यात्यन्तिकशरीरसम्बन्धाभावशब्दितः स्वात्मन्येवावस्थानलक्षणो मोक्षः सिध्यतीत्यर्थः । अत्र च शरीरसम्बन्धस्य कर्मनिमित्तकत्वात् ‘निमित्तापाये नैमित्तिकापायः’ इति न्यायेन शरीरसम्बन्धाभावरूपमोक्षस्य कर्मसाध्यत्वोक्तिरिति मन्तव्यम् ।
मीमांसक एव प्रकारान्तरमाह —
अथवेति ।
यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम् , स्वर्गशब्दवाच्यस्य निरतिशयसुखस्य स्वरूपानन्दलक्षणान्मोक्षादन्यत्वासम्भवात् ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्यर्थवादेन निरतिशयप्रीतेः स्वर्गशब्दवाच्यत्वावगमात् त्रिविष्टपादिजनितसुखे दुःखासम्भिन्नत्वादिविशेषणानामसम्भवात् । तथा च निरतिशयप्रीतिरूपस्य मोक्षस्य कर्महेतुकत्वावगमात्कर्मभ्य एव मोक्षः सिध्यति, किं विद्यासम्पादनयत्नेनेत्यर्थः ।
तत्राद्यं मतं निराकरोति —
न ; कर्मानेकत्वादिति ।
कर्मणामनेकत्वसम्भवान्न विद्यां विना मोक्षसिद्धिरित्यर्थः ।
सङ्ग्रहं विवृणोति —
अनेकानि हीति ।
कर्मानेकत्वप्रसिद्धिद्योतनार्थो हि-शब्दः । तेषु कर्मसु यान्यनारब्धफलानि तेषामुपभोगेन क्षयासम्भवात्तानि शेषकर्माणि तन्निमित्तशरीरारम्भ एवंवृत्तस्याप्युपपद्यत इत्यर्थः ।
नन्वनेकजन्मान्तरकृतानां सर्वेषामेव कर्मणां सम्भूय वर्तमानजन्मारम्भकत्वसम्भवादनारब्धफलानि कर्माणि न सन्त्येव ; नेत्याह —
विरुद्धफलानीति ।
स्वर्गनरकादिरूपविरुद्धफलवतां ज्योतिष्टोमब्रह्महत्यादीनां सम्भूयैकजन्मारम्भकत्वासम्भवेनैकस्मिञ्जन्मन्युपभोगेन तेषां क्षयासम्भवात्सन्त्येव शेषकर्माणीत्यर्थः ।
सञ्चितकर्मसद्भावे मानमाह —
कर्मशेषसद्भावसिद्धिश्चेति ।
तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्शयतीत्यर्थः ।
ननु सञ्चितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भाविजन्मप्राप्तिरिति शङ्कते —
इष्टानिष्टेति ।
नित्यानां सञ्चितकर्मक्षयफलकत्वं मीमांसकस्य स्वाभ्युपगमविरुद्धमिति दूषयति —
नेति ।
असुखरूपस्येति ।
सुखसाधनस्येति यावत् ।
आगामिन इति ।
नित्याकरणानन्तरमेव प्रसक्तस्येत्यर्थः ।
नित्यानां तदभ्युपगमेऽपि परस्य नाभिमतसिद्धिरित्याह —
यदि नामेति ।
नित्यान्यनारब्धफलकर्मक्षयार्थानि सन्तु नामेत्यर्थः । ‘धर्मेण पापमपनुदति’ इति शास्त्राच्छुद्ध्यशुद्धिरूपयोः सुकृतदुष्कृतयोरेव विरोधाच्च नित्यानि पापमेव नाशयेयुः, न सञ्चितपुण्यमपि ; अतस्तत्पुण्यनिमित्तं भाविजन्म मुमुक्षोरवश्यम्भावीत्यर्थः ।
विरोधाभावमेव साधयति —
न हीत्यादिना ।
यदुक्तं काम्यप्रतिषिद्धयोरनारम्भादिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रतिषिद्धवर्जनं पुरुषेण कर्तुमशक्यम् अतिनिपुणानामपि सूक्ष्मापराधदर्शनात् , काम्यवर्जनमपि सर्वात्मना कर्तुमशक्यमित्याह —
न चेति ।
आत्मज्ञानं हि कामानामशेषतो निवर्तकम् , ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मरणात् ; ज्ञानाभावे च सति कामावश्यम्भावात् काम्यानुष्ठानमपि कदाचिन्मुमुक्षोः प्रसज्जते, तद्वशाच्च जन्मापि स्यादित्यर्थः । अशेषकर्मक्षयोपपत्तिर्न चेत्यन्वयः ।
ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति ; नेत्याह —
अनात्मविदो हीति ।
फलविषयत्वादिति ।
आत्मव्यतिरिक्तं किञ्चिदपि वस्तुतो नास्तीति मन्यमानस्यात्मविदः स्वव्यतिरिक्तफलाभावादिति भावः ।
तर्हि स्वात्मन्येवानन्दरूपे तस्य कामोऽस्तु ; नेत्याह —
स्वात्मनि चेति ।
नन्वात्मविदः प्राप्तस्वरूपानन्दस्यापि परब्रह्मप्राप्तौ कामोऽस्ति ; नेत्याह —
स्वस्येति ।
विदुष इत्यर्थः ।
नित्यानुष्ठानेन च प्रत्यवायाभावादिति वदता त्वया यदि प्रत्यवायस्य नित्याकरणजन्यत्वं विवक्षितम् , तदा तदपि न सम्भवतीत्याह —
नित्यानां चेति ।
प्रत्यवायानुपपत्तिरिति ।
प्रत्यवायोत्पत्तिर्न सम्भवतीत्यर्थः ।
ननु ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति’ इति वचनगतशतृप्रत्ययादकरणस्य प्रत्यवायहेतुत्वमवगम्यते ; अकरणात्प्रत्यवायोत्पत्त्यनुपगमे च शतृप्रत्ययानुपपत्तिरिति ; नेत्याह —
इत्यत इति ।
वक्ष्यमाणरीत्या अकरणस्य प्रत्यवायाहेतुत्वादित्यर्थः । ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण हेताविव लक्षणेऽपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते ? उच्यते - यदि यथावन्नित्यानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् , न चायं नित्यमकार्षीत् ; ततः प्रत्यवायी भविष्यतीत्येवं नित्याकरणेन पूर्वजन्मसु सञ्चितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवायक्रिया शिष्टैर्लक्ष्यत इति ।
ननु लक्षणे हेतौ च साधारणाच्छतृप्रत्ययादकरणस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते ? तत्राह —
अन्यथेति ।
अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अकरणस्याभावरूपताया उक्तत्वादित्यर्थः ।
तत्रेष्टापत्तिं वारयति —
सर्वेति ।
अभावस्य भावधर्माश्रयत्वायोग्यत्वं प्रत्यक्षादिप्रमाणसिद्धम् , अभावस्य कारणत्वरूपभावधर्माश्रयत्वस्वीकारे तु प्रत्यक्षादिप्रमाणविरोधः स्यादित्यर्थः । न चैवमकरणस्य कथं ज्ञापकत्वं कथं वानुपलब्धेरभावज्ञापकत्वमिति वाच्यम् , अकरणानुपलब्ध्योर्ज्ञातयोरेव ज्ञापकत्वाभ्युपगमेन स्वरूपतस्तयोर्ज्ञानहेतुत्वाभावादित्यन्यत्र विस्तरः ।
मीमांसकस्याद्यप्रकारनिराकरणमुपसंहरति —
इत्यत इति ।
उक्तप्रकारेण ब्रह्मज्ञानं विना यथावर्णितचरितस्यापि मुमुक्षोर्मोक्षासम्भवादित्यर्थः ।
अथ वेत्याद्युक्तमप्यनूद्य निराकरोति —
यच्चोक्तमित्यादिना ।
किं केवलकर्मणां मोक्षारम्भकत्वम् , विद्यासहितानां वा ? नाद्य इत्याह —
तन्नेति ।
ननु नित्यत्वेऽपि कर्मसाध्यत्वं तस्य किं न स्यादिति ; नेत्याह —
न हीति ।
लोके यन्नित्यमात्मादि तत्किञ्चिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्याप्तिदर्शनादित्यर्थः ।
द्वितीयकल्पमनूद्य निराकरोति —
विद्यासहितानामिति ।
विद्यारूपसहकारिमहिम्ना कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्ककाभिमानः ।
विरुद्धमिति ।
विद्यारूपसहकारिमहिम्ना तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, ’यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । स चातिशयो न नित्यत्वरूपः, ‘यत्कृतकं तदनित्यम्’ इति व्याप्तिविरोधात् ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिश्रुतिविरोधाच्च ; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निरतिशयप्रीतेरात्मस्वरूपत्वेनारभ्यत्वायोगाच्च न विद्यासहितानां केवलानां वा कर्मणां मोक्षः फलम् । न च स्वर्गकामश्रुतिविरोधः, तत्र निरतिशयप्रीतिवाचकस्य स्वर्गशब्दस्य कर्मयोग्यतानुसारेण विषयजनितसुखविशेषे लाक्षणिकत्वोपपत्तेः । एतच्च बृहदारण्यकषष्ठाध्यायवार्त्तिके प्रपञ्चितम् , तत्रैव द्रष्टव्यम् ।
शङ्कते —
यद्विनष्टमिति ।
यद्घटादि विनष्टं तत्पुनर्नोत्पद्यत इति दर्शनात् घटादिविनाशरूपस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुनरुत्पत्तिप्रसङ्गः स्यात् ; ध्वंसप्रागभावानधिकरणकालस्य प्रतियोगिकालत्वनियमादित्यर्थः ।
ततः किम् ? तत्राह —
प्रध्वंसाभाववदिति ।
प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्भावकार्यं तदनित्यमिति व्याप्तिर्विवक्षिता ; निरतिशयप्रीतिरूपा च मुक्तिर्भावरूपैव तवापि संमता, अतो न मुक्तेर्नित्यत्वं सिध्यतीति दूषयति —
नेति ।
परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह —
प्रध्वंसाभावोऽपीति ।
प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भावति, नैरुक्तैर्जनेर्भावपदार्थधर्मत्वप्रतिपादनविरोधेनाभावस्य भावरूपजन्माश्रयत्वायोगेन च प्रध्वंसाभावे जन्मरूपविशेषाभावाभ्युपगमादित्यर्थः ।
कथं तर्हि वादिनां प्रध्वंसाभावे जन्माश्रयत्वज्ञानमित्याशङ्क्य भ्रान्तिमात्रमेतदित्याह —
विकल्पमात्रमेतदिति ।
ननु प्रध्वंसाभावस्य प्रतियोगिजन्यत्वाभावे तत्प्रतियोगिकत्वं न स्यादित्याशङ्क्य प्रागभावात्यन्ताभावयोरिव तस्य तत्प्रतियोगिकत्वं सम्भवतीत्याशयेनाह —
भावप्रतियोगी ह्यभाव इति ।
अभावस्य भावप्रतियोगिकत्वं घटाभावः पटाभाव इति व्यवहारसिद्धमिति हि-शब्दार्थः ।
नन्वाभावे भावप्रतियोगिकत्वविशेषाभ्युपगमे तत्र जनिरूपविशेषोऽपि परमार्थोऽस्त्विति न शङ्कनीयम् , भावप्रतियोगिकत्वस्यापि तत्र परमार्थत्वासिद्धेरित्येतत्सदृष्टान्तमाह —
यथा हीति ।
भावः सत्त्वम् , तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्विशेषं ब्रह्मैव नान्यत् ; तद्यथा एकमपि घटसत्त्वं पटसत्त्वमिति रीत्या भिन्नमिव घटादिभिर्विशेष्यते घटादिप्रतियोगिकत्वेन कल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रतीयमानाभावोऽप्येक एव, समवायसत्ताजात्यादिवत् लाघवात् ; स चाभावः सर्वविशेषरहितोऽपि भावेषु घटादिषु मुद्गराभिघातादिजनितक्रियायोगाद्घटादिप्रतियोगिकत्वेन जातत्वेन च वादिभिर्भ्रान्त्या परिकल्प्यते, द्वावभावावित्यादिव्यवहारात् सङ्ख्यागुणयोगमभावस्य मत्वा द्रव्यत्वेनाभावः केनचित् परिकल्प्यते । एतदुक्तं भवति - यथा ह्यभावस्य द्रव्यान्तर्भावमाशङ्कमानस्याभावे गुणाश्रयत्वद्रव्यत्वभ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भावप्रतियोगिकत्वजन्माश्रयत्वादिरस्तीति भ्रान्तिरिति ।
अभावस्य वस्तुतो जन्मादिरूपभावधर्माश्रयत्वे बाधकमाह —
न ह्यभाव इत्यादिना ।
भावधर्माश्रयस्य भावत्वनियमप्रसिद्धिद्योतनार्थो हि-शब्दः ।
विशेषणसहभावीति ।
विशेषणाश्रय इत्यर्थः । नन्वेकस्याभावस्य जन्मादिकल्पनास्पदस्य ब्रह्मतुल्ययोगक्षेमस्याङ्गीकारे द्वैतापत्तिरिति चेत् , नायं दोषः ; भावाद्वैताभिप्रायेणास्य भाष्यस्य प्रवृत्त्युपपत्तेः । वस्तुतस्तु अयमभावो न ब्रह्मातिरिक्तः, ब्रह्मणि कल्पितघटादिप्रतियोगिकत्वात् कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ।
साध्यस्य मोक्षस्य स्वरूपेण नित्यत्वायोगेऽपि प्रवाहनित्यत्वं सम्भवतीति शङ्कते —
विद्याकर्मकर्तुरिति ।
कर्तुरात्मनो नित्यत्वादात्मा सन्ततं विद्याकर्मणी कुर्वन्नेवास्ते ; तथा च विद्याकर्मलक्षणसाधनसन्तानजनितो मोक्षोऽपि सन्ततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह —
गङ्गेति ।
नेति ।
मुक्तिकालेऽपि साधनानुष्ठातृत्वरूपस्य कर्तृत्वस्यानुवृत्त्युपगमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात् ; एतद्दोषपरिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छेदादनित्यत्वं तदवस्थमेवेत्यर्थः ।
तस्मादिति ।
मोक्षस्य साध्यत्वे नित्यत्वभङ्गप्रसङ्गादित्यर्थः । काम आदिपदार्थः । कर्मोपादानहेतोरविद्यादेर्निवृत्तौ सत्यामित्यर्थः ।
ननु ब्रह्मात्मनावस्थानं मोक्षः ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतेः, न त्वात्मन्यवस्थानमिति शङ्कां निराकरोति —
स्वयं चेति ।
नन्वविद्यादिनिवृत्तिरेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह —
तद्विज्ञानादिति ।
कर्मणामविद्यानिवर्तने सामर्थ्याभावादिति भावः । इति-शब्दो विचारसमाप्त्यर्थः ।
एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसंहरति —
अतो ब्रह्मविद्यार्थेति ।
ब्रह्मविद्याया एव मुक्तिसाधनत्वादित्यर्थः ।
ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याशयेनोपनिषच्छब्दार्थमाह —
उपनिषदितीति ।
अत्र सामीप्यवाचिना उपोपसर्गेण प्रतीचो ब्रह्मसामीप्यमुच्यते । तच्च सामीप्यं तयोरभेदरूपं विवक्षितम् । नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयोरभेदनिश्चयरूपा विद्योच्यते । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः । ततश्च प्रत्यग्ब्रह्मैक्यगोचरा विद्या विदुषामनर्थं शातयति अवसादयति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्मविद्योच्यत इत्यर्थः ।
एतदेव विवृणोति —
तच्छीलिनामिति ।
ब्रह्मविद्याभ्यासशीलवतामित्यर्थः । शातनं शिथिलीकरणम् , तेषां गर्भादीनामवसादनं नाशनम् । उपनिगमयितृत्वात् प्रत्यक्तया प्रापयितृत्वादित्यर्थः ।
एवमुपनिषत्पदस्य ‘षदॢ विशरणगत्यवसादनेषु’ इति वैयाकरणप्रसिद्धिमनुसृत्यार्थत्रयं दर्शितम् । इदानीं स्वयमर्थान्तरमाह —
उप निषण्णं वेति ।
उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबाधिततया स्थितमित्यर्थः ।
उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति —
तदर्थत्वादिति ।
विद्याप्रयोजनकत्वाद्ग्रन्थोऽप्युपनिषत्पदेन निरूढलक्षणया व्यवह्रियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या तस्य मानान्तरानधिगतं ब्रह्म विषयः तद्विद्याद्वारा मुक्तिः प्रयोजनम् , तत्कामोऽधिकारीति सूचितं भवति ॥