एवं विषयादिमत्त्वादुपनिषदो व्याख्यारम्भं समर्थ्य व्याख्यामारभते —
शं सुखमित्यादिना ।
शमित्यस्य सुखकृदित्यर्थः ।
चक्षुषीति ।
चक्षुष्यादित्यमण्डले च वर्तमानस्तयोरभिमानीत्यर्थः ।
बल इति ।
बाह्वोर्बलेऽभिमानित्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरुरित्यर्थः ।
विस्तीर्णक्रम इति ।
त्रिविक्रमावतारे विस्तीर्णपादोपेत इत्यर्थः ।
शरीरस्थप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते ? अत्राह —
तासु हीति ।
विद्यार्थं श्रवणम् , श्रुतस्याविस्मरणं धारणम् , शिष्येभ्यः प्रतिपादनं विनियोगः । शमादिकमादिपदार्थः ।
नमो ब्रह्मण इत्यादेस्तात्पर्यमाह —
ब्रह्म विविदिषुणेति ।
त्वं ब्रह्मेति वदनक्रिया ब्रह्मवदनक्रिया ।
परोक्षेति ।
नमो ब्रह्मण इत्यत्र वायोः सम्बोधनाभावात् परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन सम्बोधनात्प्रत्यक्षतया निर्देश इत्यर्थः । यद्वा ब्रह्मेति पारोक्ष्येण निर्देशः, वायोर्ब्रह्मशब्दितसूत्रात्मतारूपेण परोक्षत्वात् , वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायोः प्रत्यक्षत्वादित्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन सम्बन्धः ।
वायोः प्रत्यक्षब्रह्मत्ववदने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे —
त्वमेव चक्षुराद्यपेक्ष्येत्यादिना ।
बाह्यमप्रत्यक्षं चक्षुराद्यपेक्ष्य, त्वमेव प्रत्यक्षं ब्रह्मासीति सम्बन्धः ।
प्रत्यक्षत्वे हेतुरव्यवहितत्वम् ; तदेव विवृणोति —
संनिकृष्टमिति ।
त्वगिन्द्रयसंनिकृष्टमित्यर्थः ।
वदिष्यामीति ।
वदामीत्यर्थः ।
ऋतसत्यशब्दयोरपुनरुक्तमर्थं वदन्नेव तौ व्याचष्टे —
ऋतमित्यादिना ।
स एवेति ।
शास्त्रानुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः ।
त्वदधीन एवेति ।
कर्मसम्पादनस्य प्राणवाय्वधीनत्वदर्शनादिति भावः ।
सर्वात्मकमिति ।
समष्टिव्यष्ट्यात्मकमित्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम् , अस्मदादिप्राणरूपेण व्यष्टिशब्दितं परिच्छिन्नत्वं चेत्युभयं परोक्षप्रत्यक्षनिर्देशाभ्यां प्रकृतमिति मत्वा तत्सर्वात्मकमिति सर्वनामप्रयोग इति मन्तव्यम् ।
एवं स्तुतमिति ।
उक्तप्रकारेण ब्रह्मवदनक्रियया स्तुतमित्यर्थः । इदमुपलक्षणम् । नमस्कृतं चेत्यपि द्रष्टव्यम् , तस्यापि पूर्वं कृतत्वात् ।
आध्यात्मिकेति ।
ज्वरशिरोरोगादय आध्यात्मिकाः, चोरव्याघ्राद्युपद्रवा आधिभौतिकाः, यक्षराक्षसाद्युपद्रवा आधिदैविका इति विभागः ॥