शीक्षाध्यायारम्भस्य तात्पर्यमाह —
अर्थज्ञानेत्यादिना ।
यत्नोपरम इति ।
अध्ययनकाले स्वरादिष्वौदासीन्यमित्यर्थः । स्वरवर्णादिव्यत्यासे च सत्यन्यथार्थावबोधः प्रसज्जेत ; ततश्चानर्थप्रसङ्गः स्यात् ‘मन्त्रो हीनः स्वरतो वर्णतो वा’ इत्यादिशास्त्रादिति भावः । नन्वेवं सति कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चेत् , सत्यम् ; अत एवोभयसाधारण्यायायं काण्डयोर्मध्ये पठितः । ननु तर्हि भाष्ये उपनिषद्ग्रहणमनर्थकम् ; नानर्थकम् , उपनिषत्पाठे यत्नाधिक्यद्योतनार्थत्वोपपत्तेः । तथा हि - कर्मकाण्डे क्वचिदन्यथार्थज्ञानपूर्वकान्यथानुष्ठानस्य प्रायश्चित्तेन समाधानं सम्भवति, ‘अनाज्ञातं यदाज्ञातम्’ इत्यादिमन्त्रलिङ्गात् । ज्ञानकाण्डे तु सगुणनिर्गुणवाक्यानामन्यथार्थावबोधे सति सम्यगुपासनानुष्ठानतत्त्वज्ञानयोरलाभात्पुरुषार्थासिद्धिरेव स्यात् , प्रायश्चित्तेनात्र समाधानासम्भवात् । अतो यथावद्ब्रह्मबोधायोपनिषत्पाठे यत्नाधिक्यं कर्तव्यमिति द्योतनार्थत्वेनोपनिषद्ग्रहणमुपपद्यत इति ॥
शीक्षाशब्दस्य द्वेधा व्युत्पत्तिं दर्शयति —
शिक्ष्यत इत्यादिना ।
लक्षणपदम् ‘अकुहविसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, ऌतुलसानां दन्ताः’ इत्यादिशास्त्रपरम् ।
नन्वेवं सति वर्णाद्युच्चारणलक्षणं शिक्ष्यतेऽनयेति व्युत्पत्तिरयुक्ता, तल्लक्षणस्य शीक्षाशब्दितेऽध्याये शिक्षणादर्शनादित्याशङ्क्य व्युत्पत्त्यन्तरं दर्शयति —
शिक्ष्यन्त इति ।
वेदनीयत्वेनोपदिश्यन्त इत्यर्थः ।
चक्षिङ इति ।
‘चक्षिङः ख्याञ्’ इति सूत्रेण ख्याञादिष्टो यस्य तस्येदं रूपम् , न तु ‘ख्या प्रकथने’ इत्यस्य, तस्यार्धधातुके प्रयोगाभावादित्यर्थः । व्यक्ता वाक्कर्म क्रिया अर्थो यस्य तस्येत्यर्थः ।
मध्यमवृत्त्येति ।
अतिद्रुतत्वादिकं विनेत्यर्थः ॥