अथातः संहिताया इत्यादेस्तात्पर्यमाह —
अधुनेति ।
वर्णानामत्यन्तसामीप्यं संहिता, तद्विषयोपनिषदुपासनमिदानीमुच्यत इत्यर्थः । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः ।
संहितोपनिषच्छेषमाशीर्वादान्तरं प्रथममाह —
तत्रेति ।
उपनिषत्परिज्ञानमुपासनविषयकं ज्ञानम् ; तच्च शिष्यस्याचार्योपदेशजनितमाचार्यस्य च तदुपदेशप्रयोजकम् , तन्निमित्तकं यश इत्यर्थः ।
तेज इति ।
मुखकान्त्यादिरूपमुपनिषत्परिज्ञाननिमित्तकमित्यर्थः ।
ननु सहैवास्त्विति केन प्रार्थ्यते ? तत्राह —
शिष्यवचनमिति ।
तत्र विनिगमकमाह —
शिष्यस्य हीति ।
तस्याकृतार्थत्वं प्रसिद्धमिति हि-शब्दार्थः ।
नन्वाचार्योऽप्यकृतार्थ एव शिष्यसापेक्षत्वादिति ; नेत्याह —
कृतार्थो हीति ।
न ह्याचार्यस्य स्वप्रयोजनसिद्ध्यर्थं शिष्यापेक्षास्ति, किं तु केवलं तदनुग्रहार्थमेवाचार्यप्रवृत्तिरिति भावः । नन्वेवमाचार्यस्य शिष्येण किमर्थं यशआदि प्रर्थ्यते ? स्वार्थमेवेति ब्रूमः, यशस्विनः शिष्या हि लोके यशस्विनो भवन्ति ; यशस्विनां च लाभपूजादिकं फलं प्रसिद्धम् ; अतः स्वार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यनवद्यम् । पूर्ववृत्तस्यानन्तरमिति सम्बन्धः ।
वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःशब्देनोक्त इत्याह —
यतोऽत्यर्थमिति ।
ज्ञानमुपासनम् , तदेव विषयः, तस्मिन्नित्यर्थः ।
ग्रन्थसंनिकृष्टामेवेति ।
संहितारूपग्रन्थप्रधानामेवेति यावत् ।
नन्वधिकरणेष्विति सप्तम्या लोकादिषु संहितादृष्टिविधिरिह विवक्षित इति प्रतीयते ; तथा सति लोकानामेव संहितादृष्ट्योपास्यत्वं स्यात् ; तच्चोपक्रमोपसंहारविरुद्धम् , ‘अथातः संहितायाः’ इत्युपक्रमे ‘य एवमेता महासंहीता व्याख्याता वेद’ इत्युपसंहारे च संहिताया एवोपास्यत्वावगमादित्याशङ्क्याह —
ज्ञानविषयेष्वित्यर्थ इति ।
अधिकरणपदस्य विषयपरत्वोक्तिरुपलक्षणम् ; सप्तमी तृतीयार्थपरेत्यपि द्रष्टव्यम् । तथा च लोकाद्यात्मना संहितैवोपास्येति लभ्यते, अतो न विरोध इति भावः ।
लोकेष्वधीति ।
लोकविषयकमिति यावत् । एवमुत्तरत्रापि ।
अत्र विधित्सितानामुपासनानां स्तावकं ता महासंहिता इति वाक्यम् । तद्व्याचष्टे —
ता एता इति ।
अथाधिलोकमथाधिज्योतिषमित्यादिवाक्यस्थाथशब्दानामर्थमाह —
दर्शनक्रमेति ।
अत्रोपासनस्यैकत्वेन कर्तुरेकत्वाल्लोकादिभेदेन प्रयोगभेदाच्चावश्यम्भाविनि क्रमे तद्विधानार्था अथ-शब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्निरूपितक्रमार्था इति भावः ।
उपनिषदः कथं कर्तव्या इत्याकाङ्क्षायामाह —
तासामित्यादिना ।
ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयोर्भेदादित्याशङ्क्याह —
पूर्ववर्ण इति ।
मनो ब्रह्म इत्यादिवदत्र सामानाधिकरण्यमिति भावः ।
मध्यमिति ।
पूर्वोत्तररूपे सन्धीयेते अस्मिन्निति व्युत्पत्त्या यत्सन्धिशब्दवाच्यं पूर्वोत्तररूपयोर्मध्यम् , तत्रान्तरिक्षलोकदृष्टिः कर्तव्येत्यर्थः ॥