वायुरिति ।
सन्धीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्त्या सन्धानशब्दवाच्यं यत्संहितारूपम् , तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्यते - ‘इषे त्त्वा’ इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः ; यश्चोपरितनस्तकारः स द्युलोकः ; तयोर्वर्णयोर्मध्यदेशोऽन्तरिक्षलोकः ; तस्मिन्देशे संहितानिमित्तो द्विर्भावेनापादितो योऽन्यस्तकारः स वायुरिति ।
समानमिति ।
अथाधिज्योतिषम् , अग्निः पूर्वरूपम् , आदित्य उत्तररूपम् , आपः सन्धिः, वैद्युतः सन्धानम् , इत्यधिज्योतिषम् । ज्योतिःशब्देनात्र जहल्लक्षणया आपः सङ्गृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम् , आचार्यः पूर्वरूपम् , अन्तेवास्युत्तररूपम् , विद्या सन्धिः, प्रवचनं सन्धानम् , इत्यधिविद्यम् । इत्यधिविद्यमित्यत्र विद्याशब्देन आचार्यादयो जहल्लक्षणयैव सङ्गृहीता इति बोध्यम् । विद्याशब्दश्चाध्येतव्यग्रन्थपरः । ग्रन्थस्याध्ययनमध्यापनं वा प्रवचनम् । अथाधिप्रजम् , माता पूर्वरूपम् , पितोत्तररूपम् , प्रजा सन्धिः, प्रजननं सन्धानम् , इत्यधिप्रजमित्यत्र प्रजाशब्दो मात्रादीनपि पूर्ववत्सङ्गृह्णाति । प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम् , उत्तरा हनुरुत्तररूपम् , वाक्सन्धिः, जिह्वा सन्धानम् , इत्यध्यात्मम् । अत्रात्मा देहः, तदवयवविषयमुपासनमध्यात्ममित्यर्थः । एतेषु समानं योजनमित्यर्थः ।
उपप्रदर्श्यन्त इति ।
उपसंह्रियन्त इति यावत् ।
वेदेत्यस्य ज्ञानवाचित्वात्कथं ज्ञानावृत्तिरूपोपासनपरत्वमित्याशङ्क्य तत्साधयति —
वेदेत्युपासनं स्यादित्यादिना ।
विज्ञानाधिकारादिति ।
उपास्तिप्रकरणादित्यर्थः ।
तत्र मानमाह —
इति प्राचीनेति ।
यथाशास्त्रमित्यनेन यत्राहङ्ग्रहश्चोदितस्तत्राहङ्ग्रहेण, अन्यत्र तं विनेति विवक्षितम् । तुल्यत्वमेकविषयकत्वम् ।
अतत्प्रत्ययैरिति ।
ध्येयान्यगोचरैः प्रत्ययैरित्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्ययसन्ततिरुपासनमिति निष्कर्षः ।
ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदावृत्त्येत्याशङ्क्य क्रियावृत्तावेवोपासनशब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम् , अतोऽत्र वेदेत्यनेन प्रत्ययक्रियावृत्तिरेव लक्षणीयेत्याशयेनाह —
प्रसिद्धश्चेत्यादिना ।
ननु तत्रापि सकृदुपचारक्रियैवोपासनम् ; नेत्याह —
यो हीति ।
पृथिवी पूर्वरूपमित्यादिवेदनमात्रात्फलासम्भवादप्युपासनमेवात्र विधेयम् , उपासनस्य तु योग्यतया वक्ष्यमाणं फलं सम्भवति, लोकेऽप्युपासनस्य फलवत्त्वसिद्धेरित्याशयेनाह —
स चेति ।
गुर्वाद्युपासक इत्यर्थः ।
अतोऽत्रापीति ।
गुर्वाद्युपासनस्य लोके फलवत्त्वदर्शनात् अत्रापि संहिताविषयेऽपि, य एवं लोकादिदृष्ट्या संहिता उपास्त इत्यर्थः ।
सन्धीयत इति ।
सम्बध्यत इत्यर्थः । अत्र फलकामिना क्रियमाणमुपासनं कामितफलाय भवति, फलाभिसन्धिरहितेन तु क्रियमाणं तदेव विद्यासाधनं भवतीति ब्रह्मविद्यासंनिध्याम्नानबलात्कल्प्यत इति मन्तव्यम् ॥