ननु यश्छन्दसामित्यादयो मन्त्राः किमर्थमाम्नायन्ते ? तत्राह —
मेधेति ।
मेधाकामस्य मेधाप्राप्तिसाधनं जप उच्यते, श्रीकामस्य श्रीप्राप्तिसाधनं होम उच्यत इति विभागः ।
एवं तात्पर्यवर्णने कारणमाह —
स मेन्द्र इत्यादिना । ऋषभ इति ।
गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधान्यादित्यर्थः ।
ननु कथमोङ्कारस्य सर्वरूपत्वमित्याशङ्क्याह —
सर्ववाग्व्याप्तेरिति ।
शब्दमात्रे कृत्स्नस्याभिधेयस्यान्तर्भावम् ‘तस्य वाक्तन्तिः’ इत्यादिश्रुत्युक्तं सिद्धं कृत्वा तस्य सर्वशब्दात्मकत्वे प्रमाणमाह —
तद्यथेति ।
‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णा’ इति श्रुत्यन्तरम् । तस्य चायमर्थः - यथा लोके अश्वत्थपर्णानि शङ्कुशब्दवाच्येन स्वगतशलाकाविशेषेण व्याप्तानि, तद्वदोङ्कारेण सर्वा शब्दात्मिका वाग्व्याप्तेति ।
अत एवेति ।
विश्वरूपत्वाच्च तस्य श्रेष्ठत्वमित्यर्थः ।
नन्वोङ्कारस्यात्र स्तुतिरन्याय्या ; नेत्याह —
ओङ्कारो ह्यत्रेति ।
अस्यां संहितोपनिषद्योङ्कारस्य ‘ओमिति ब्रह्म’ इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः ।
ओङ्कारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशङ्क्य तद्धेतुप्रदर्शनपरं छन्दोभ्य इति वाक्यं व्याचष्टे —
वेदेभ्य इत्यादिना ।
अमृतादिति वेदविशेषणम् ‘वेदा ह्यमृताः’ इति श्रुत्यन्तरात् , एकवचनं च च्छान्दसमित्याशयेनाह —
वेदा ह्यमृतमिति ।
वेदानाममृतत्वं नित्यत्वम् , तच्चावान्तरप्रलये नाशाभावरूपं विवक्षितम् । न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात् , महाप्रलये नाशाभ्युपगमाच्च । इदं च देवताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम् ।
सम्बभूवेत्यस्यार्थमाह —
लोकदेवेति ।
सारिष्ठमिति ।
सारतममित्यर्थः । तथा च श्रुतिः - ‘प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःसुवरिति तान्यभ्यतप्तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्’ इति । अभ्यतपत् सारजिघृक्षया पर्यालोचितवानित्यर्थः । त्रयो वेदास्त्रयी विद्या । यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि ‘प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्राबृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्’ इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहत् गृहीतवान् , सारत्वेन ज्ञातवानित्यर्थः ।
ननु सम्बभूवेति पदं जन्मपरत्वेनैव कुतो न व्याख्यायते ? तत्राह —
न हीति ।
नित्यस्येति ।
अवान्तरप्रलयावस्थायिन इत्यर्थः । प्रणवस्य वेदान्तर्भूतत्वेन वेदसमानयोगक्षेमस्य वेदेभ्यः सकाशान्मुख्यं जन्म न हि सम्भवतीत्याशयः । परमेश्वर इत्यस्य विवरणं सर्वकामेश इति ।
ननु मेधाप्रदानेन यत्प्रीणनं तात्कालिकप्रीतिसम्पादनं न तद्विद्याकामस्य विवक्षितं प्रयोजनमित्यस्वरसादाह —
बलयतु वेति ।
अत्र विद्याकामस्यापेक्षां दर्शयति —
प्रज्ञाबलं हीति ।
प्रज्ञात्र मेधाशब्दार्थः । सा च ग्रन्थतदर्थधारणशक्तिः, सैव बलम् । प्रज्ञाबलस्य च ‘नायमात्मा बलहीनेन लभ्यः’ इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः ।
तदधिकारादिति ।
अमृतशब्दमुख्यार्थस्य ब्रह्मणो धारणासम्भवादमृतशब्देन मुख्यार्थादन्यदेव किञ्चिल्लक्षणीयम् ; तच्चामृतशब्दितब्रह्मप्राप्तिसाधनं ब्रह्मज्ञानमेव वक्तव्यम् , तत्साधनप्रज्ञाप्रार्थनेन तस्यैव बुद्धिस्थत्वादित्यर्थः ।
पुरुषविपरिणाम इति ।
उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथमपुरुषत्वेनात्र व्यत्यासः कर्तव्य इत्यर्थः ।
मधुरभाषिणीति ।
भूयादित्यनुषङ्गः ।
ननु चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यते ? प्रार्थ्यत एवेत्याशयेन शरीरं मे विचर्षणमित्यादेर्विवक्षितमर्थमाह —
आत्मज्ञानेति ।
कार्यं स्थूलशरीरम् , करणानि चक्षुरादीनि, तेषां सङ्घातः समुदाय इत्यर्थः ।
ननु सङ्घातनिष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थं तर्हि मेधा प्रार्थ्यते ? तत्राह —
मेधा चेति ।
रोगादिप्रतिबन्धरहितस्य जितेन्द्रियस्यापि मेधां विनात्मज्ञानासम्भवात्सापि प्राधान्येनात्मज्ञानार्थमेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्रज्ञायाः प्रकृष्टसाधनत्वद्योतनार्थो हि-शब्दः । अत्राचेतनस्याप्योङ्कारस्य ब्रह्माभेदेन प्रार्थितदाने सामर्थ्यमवगन्तव्यम् ।
ननु कथं तस्य ब्रह्माभेदः ? तत्प्रतीकत्वादिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम् ? तत्राह —
ब्रह्मणः परमात्मन इति ।
नन्वसिं प्रति प्रसिद्धकोशस्येव ब्रह्म प्रति प्रणवस्य स्वस्मिन्नन्तर्भावयितृत्वरक्षकत्वादेरभावान्न मुख्यं कोशत्वमस्ति ; तत्राह —
उपलब्धीति ।
यथासिः कोशे उपलभ्यते तथा ओङ्कारे ब्रह्मोपलभ्यते ; ततश्चोपलब्धिस्थानत्वसाम्यात्कोशशब्दो गौण ओङ्कार इत्यर्थः ।
तदेव साम्यं विवृणोति —
त्वं हीति ।
तस्य ब्रह्मप्रतीकत्वे श्रुत्यन्तरप्रसिद्धिद्योतनार्थो हि-शब्दः ।
प्रतीकमिति ।
दृष्ट्यालम्बनमित्यर्थः ।
ब्रह्मदृष्टिफलमाह —
त्वयीति ।
उपलब्धिः साक्षात्कारः ।
ननु यद्योङ्कारः प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैर्नोपास्यत इति शङ्कावारणर्थं मेधया पिहित इति वाक्यम् । तद्व्याचष्टे —
मेधयेत्यादिना ।
ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्याः कथं पीठादेरिव पिधायकत्वमित्याशङ्क्यात्र विवक्षितं पिधानं कथयति —
स त्वमिति ।
उक्तलौकिकप्रज्ञामात्रयुक्ताः सामान्यप्रज्ञाः ; स त्वं सामान्यप्रज्ञैरविदितमहिमासि ; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रवणपूर्वकमात्मज्ञानादिलक्षणं विज्ञानं श्रुतम् , तत्प्राप्त्यविस्मरणादिना गोपायेति योजना । प्रथमादिपदेन मननजनितं ज्ञानं सङ्गृह्यते । द्वितीयादिपदेन रागादिलक्षणप्रतिबन्धनिवृत्तिः सङ्गृह्यते । तदुक्तं वार्त्तिके - ‘रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो’ इति ।
तत्कर्मत्वादिति ।
तनोतेर्धातोस्तदर्थकत्वादित्यर्थः ।
ममेति ।
ममान्नपानादिकं सर्वमानयन्ती सर्वदा सम्पादयन्ती तथा सम्पादितं सर्वं विस्तारयन्ती वर्धयन्ती वर्धितं सर्वं चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्टं न भवति तथा कुर्वतीति यावत् । अचिरमिति च्छेदः सम्भावनामात्रेण । दैर्घ्यं छान्दसम् ।
किमित्याहेति ।
किमावहन्तीत्याकाङ्क्षायामाहेत्यर्थः । अत्रावहन्तीत्यादिपदत्रयं श्रियो विशेषणम् ।
नन्वावहन्तीत्यादिपदत्रयस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशेषणविशेष्यभावेनान्वय इत्याशङ्क्याध्याहारेण योजयति —
श्रीर्यातामीति ।
तामावहेत्युत्तरेणान्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधानिर्वर्तनात्परमिति ।
ननु मेधानिष्पत्त्यनन्तरमेव किमिति श्रीः प्रार्थ्यते ? तत्राह —
अमेधसो हीति ।
प्रज्ञाहीनस्यापात्रव्ययादिना धनादिकमनर्थायैवेत्येतत्प्रसिद्धम् ; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः ।
किंविशिष्टां चेति ।
पुनश्च किंविशिष्टामित्यर्थः । अजादीनां लोमशत्वात्तद्रूपा श्रीर्लोमशेति भावः ।
श्रियमावहेति कः सम्बोध्यते ? तत्राह —
अधिकारादिति ।
संनिधानादित्यर्थः । ओङ्कारस्य प्रार्थितश्रीप्रदाने योग्यतासूचनार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्यप्राप्तिप्रार्थनामन्त्र आ मा यन्त्विति ।
तं व्याचष्टे —
आयन्तु मामिति ।
स्वस्याचार्यत्वप्रयुक्तकीर्तिप्रार्थनामन्त्रो यशो जन इति ।
तं व्याचष्टे —
यशस्वीति ।
‘वस निवासे’ ‘वस आच्छादने’ इति धातुद्वयादुप्रत्ययः शीलार्थे । वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः ; अतिशयेन वसुर्वसीयान् , तस्माद्वसीयसः ईलोपश्छान्दसः ।
यद्वा धनवाचिना वसुशब्देन वसुमाँल्लक्ष्यते ; तथा च अतिशयेन वसुमान्वसुमत्तरः, तस्मादित्यर्थः इत्याशयेनाह —
वसुमत्तराद्वेति ।
तेष्विति ।
वसीयःसु वसुमत्तरेषु वेत्यर्थः ।
विद्यातत्साधनप्रार्थनानन्तरं विद्याफलप्रार्थनां दर्शयति —
किं चेति ।
नन्वत्र विदुषो ब्रह्मरूपे प्रणवे मुख्यप्रवेशासम्भवादहं ब्रह्मास्मीति ज्ञानमेव तस्य तस्मिन्प्रवेशत्वेन विवक्षणीयम् । तस्य चामृतस्य देव धारणो भूयसमित्यनेनैव प्रार्थितत्वात्पुनरुक्तिः स्यादित्याशङ्क्य तात्पर्यमाह —
प्रविश्य चेति ।
वाक्यद्वयस्य विवक्षितमर्थं सङ्क्षिप्याह —
आवयोरिति ।
भेदहेतुमज्ञानं नाशयेत्यर्थः ; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम् ।
बहुभेद इति ।
शिवविष्ण्वाद्यनेकमूर्त्युपेते त्वयि पापं नाशयामि, त्वन्मूर्तिभजनेन पापं नाशयामीति यावत् ।
यदुक्तं ब्रह्मचारिणो मामायन्त्विति, तदेव दृष्टान्तेन प्रपञ्चयति —
यथेति ।
अतो मामिति ।
त्वन्निष्ठायाः संसारश्रमापनयनस्थानत्वात्तदपनयाय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः ।
आदरसूचनार्थमुक्तज्ञानं पुनः संप्रार्थ्य मुक्तिमपि तदर्थमेव पुनः प्रार्थयते —
प्रपद्यस्व चेति ।
रसविद्यो लोहो रसमयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः ।
विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति —
श्रिकामोऽस्मिन्त्यादिना ।
विद्या प्रकाशत इति ।
प्रकाशतेऽभिव्यज्यते, उत्पद्यत इति यावत् । यथा आदर्शतले निर्मले प्रतिबिम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्मलादर्शतलतुल्येऽन्तःकरणे ब्रह्मात्मानं पश्यतीति स्मृतेरुत्तरार्धार्थः ॥